________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६७४
आत्मतत्त्वविवेके सटौके
नापि नोजन्यत्वम्, परस्य ज्ञानमात्रे तथात्वात्, अन्यथा तयोरेव माध्यव्यापकत्वात् । न चाप्रयोजकत्वम, दृष्टपुरोवर्त्तिविशिष्टज्ञानस्य प्रवृत्तिहेतुत्वात् । उकरौत्या भेदाग्रहस्याप्रवर्तकत्वात् । ननु तब हेत्वभावः, शब्दस्याप्तोत्रम्य निर्दोषस्य वाऽहेतुत्वात्, न च शब्दाभामस्तद्धेतुः, योग्यताविशिष्टस्य शब्दस्य हेतुत्वात्, नापि लिङ्गाभाम:, लिङ्गविशिष्टपक्षज्ञानस्यानुमितिहेतुत्वात्, भाभामे च तदसमर्गाग्रहात्, इन्द्रियम्य सम्बद्धग्राहकत्वात् । मैवम् । संस्कारेन्द्रियाभ्यां विशिष्टधौसम्भवात्, तस्य ज्ञानदयत्वेऽभेदोच्छेदापत्तेः, तस्य तदेकमानत्वात् । न चैकविषयत्वेन तयोः सहकारिता, गौरवात् । न चातिप्रमङ्गः, भेदाग्रहस्थापि नद्भुतत्वात्, प्रत्यभिज्ञायास्तत्तां व्यभिचाराचेति मपः ॥
रघु० टौ। भेदाभेदाग्रहयोः कारणयोः सत्त्वात्कार्ययोरभेदभेदग्रहयोयुगपदुत्पत्तिप्रसङ्ग इत्याशते । प्रवृत्तिवदिति । अग्रहस्य अग्रहमात्रस्य । तनियामकमाह । मामयोति । अथैवं यदा कदाचित्पुरुषत्वादिग्रहेपि स्थाणुत्वाद्यारोपप्रसङ्ग इत्यत आह । तत्त्व इति ॥
नापि सर्वस्यायथार्थत्वात्, तबाहकस्य यथार्थत्वायथार्थत्वाभ्यामुत्तरविरोधात्। तत् किञ्चित् प्रमाणं किञ्चिदप्रमाणमिति विभाग एव वस्तुगतिः। न चासौ प्रतौतिगतिमवधूय व्यवहारगोचरः ।
For Private and Personal Use Only