________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्मतत्वविवेक सटीक
मिद्धिरित्यर्थः। परिहरति । नेति । अक्षेपकरण स्वाभाव्यस्य प्रतियोगिनः प्रसिद्धौ तदभावमादाय प्रसङ्गप्रवृत्तिस्तत्प्रवृत्तौ च खाभाव्यमिद्धिरित्यर्थः ॥
भगौ• टौ । यदौदं बीजमङ्कुरकुर्वट्रपत्वजातिमत् स्यात् अङ्करकारि स्यादिति प्रसङ्गमूलव्याप्तिः सहकारिसमवहिते ग्राह्या तत्रैव च तदसिद्धिरिति दृष्टान्तस्य साधनेनापादकेन वैकल्यम्। एवं विपर्यये ऽप्यकुराकारित्वेन तज्जात्यभावे साध्ये दृष्टान्तस्य शिखायास्तज्जात्यप्रसिद्धौ तदभावाप्रसिद्धाश्यग्रहात् माधनवैकल्यमित्याह । तस्येति । सामग्रीमध्यप्रविष्टबौजे ऽपि तदभावमाह । को हौति। तदेव स्पष्टयति । स हौति । अवमायः मविकल्पकम् । तदभावे तदुग्नेयं न निर्विकल्पकमपौत्यर्थः । बौजमकरं करोतौति बुद्धेः फलोपहितस्वरूपविषयकत्वादिति भावः । मनु करणदशायामकरणदशाव्यावृत्तं बीजं यदि न स्यात् न कुर्यादिति तादृशौ जातिः स्थादित्याह । यदि नेति । सर्वसामर्थ्य सर्वदाकार्यकरणम् असामर्थ्य न कदापौत्यर्थः । अत्राप्यन्यथामिद्धिमाह । क एवमिति । सहकारिममवधानरूपदृश्योपाधिनैव तदुपपत्तेर्न जातौ मानमित्यर्थः । तथापौति । कार्योत्पत्त्यव्यवहितपूर्वक्षणव्याप्यकालवृत्तित्वमक्षेपकारित्वं भावानां खभावः तथा च कुशूलस्थं बीजं यद्यङ्कराक्षेपकारिखभावाभिन्न स्थादग्रिमक्षण एवाङ्करकारि स्याद् अतत्वभावत्वे वा सहकारिमध्यस्थमपि तन्त्र स्थात् उभयस्वभावत्वे च विरोध इत्यर्थः अत्रापादकामिद्धिमा । युक्रमिति । कुत इति । न च सामग्री
For Private and Personal Use Only