________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षणभवादः।
शङ्क० टी० । कुशूलस्थं बीजं यदि कुर्वद्रूपत्वजातिमत् स्यात् कुर्यात् क्षेत्रपतितबीजवदिति प्रसङ्ग निरम्यति । न द्वितीय इति । तस्य जातिविशेषस्य । दृष्टान्तस्येति । क्षेत्रपतिते ऽपि बौजे कुर्वपत्वं नास्ति । तथा चापादकविकलो दृष्टान्त इत्यर्थः । मनु तवानभ्युपगममात्रेण कथं जातिविशेषविरह इत्यत पार । को हौति। प्रमाणाभावाधीन एवानभ्युपगमो ममेति भावः । प्रमाणाभावमेवोपपादयति । स हौति । अनुभव आलोचनम् तस्यैव तन्मते प्रमाणत्वात् । तथानवसायादिति । अवमायः सविकल्पकं तदेवालोचनोनायकम्। तदभावादालोचने प्रमाणान्तरं नास्तीत्यर्थः । लिङ्गाभावादिति । म चानुपलम्भादिति भावः । ननु करणान्यथानुपपत्त्यनेय एव जातिविशेषस्तदभावश्चाकरणोम्नेयः कुशूलस्थ इत्याह । यदौति । अर्थापत्तावन्यथोपपत्तिशामाह । क एवमाहेति । सहकारिलाभाधीनं करणं तदलाभाधीनमकरणमिति(१) यद्यपि निश्चय एव तथाप्यापाततः मन्देहादप्यर्थापत्तिदूषिता भवति तमेवाह । परमिति । बौजस्याक्षेपकरणस्वाभाव्ये माध्ये ऽपि(२) पूर्वापरबौजयोरेक्ये दोषमाह । तथापौति । वस्तुत एवाक्षेपकरणखाभाव्ये दोषोऽयं न त्वन्यथापौति परिहरति। युक्तमेतदिति । अक्षेपकारित्वस्खाभाव्यं वास्तवं शङ्कते । प्रसङ्गति । भौज यदि प्रक्षेपकरणखभावं न स्यात् न कुर्यात् करोति च तस्मादक्षेपकारिखभावमिति प्रमङ्गविपर्ययाभ्यामक्षेपकारिखाभाव्य
(१) तदभावाधीनमकरणभिति-पा० २ पु० । (२) स्वाभाव्यमारोप्य-पा० २ । ३ पु• ।
For Private and Personal Use Only