________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६७२
आत्मतत्त्वविवेके सटौके
ननु मत्यरजते न प्रतियोग्यप्रसिद्धिः, पुरोवर्तिनि भेद रजतप्रतियोगित्वज्ञानविषयत्वाभावस्य पुरोवर्त्तिनौष्टभिन्नत्वप्रकारकज्ञानविषयत्वाभावस्य वा हेतुत्वात् । अत्राहुः । इदं रजतमित्यत्र पुरोवर्त्तिनानिष्टभेदग्रहेऽन्यथाख्यातिः, नदग्रहे चानिष्टभेदाग्रहान्नित्तिरपि स्यात् । श्रथानिष्टतावच्छेदकरू पेणोपस्थितादनिष्टभेदाग्रहानिवृत्तिन चेदन्त्वमनिष्टतावच्छेदकम्, एवमपोदं रजतं न क्रिरित्यत्रानिष्टतावच्छेदकशुक्रित्वेनोपस्थितानिष्टभेदाग्रहान्निवर्त्तत । अथ स्वातन्त्र्योपस्थितानिष्टभेदाग्रहात् प्रवृत्तिनिवृत्तौ, अभावविशेषणत्वेनानुपस्थितिश्च स्वातन्त्र्यम्, अनिष्टं च तत्राभावविशेषणात्वेनोपस्थित मिति न निवृत्तिरत एव नेदं रजतमिति ज्ञानाद्रजते न प्रवृत्तिः, अभावामंसर्गाग्रह एव नकारार्थ इति नान्यथाख्यातिः। नन्वभावविशेषणत्वेनोपस्थितावपि पूर्व प्रतियोगिनः स्वातन्त्र्येणोपस्थिते शुक्रो वणिग्वौथौ स्थाभावप्रतियोगौदं रजतमिति भ्रमज्ञानादप्रवृत्त्यापत्तेश्च । किं च रजतरङ्गयोरिमे रजते इति भ्रमादिष्टानिष्टतावच्छेदकरूपेषा स्वातन्व्योभयभेदाग्रहात्प्रवृत्तिनिवृत्तिमापत्तिः । न चैवम्बिधभ्रम मानाभाव: । तथाविधमत्य ज्ञानवत्प्रत्येकन्नमसामय्योरेकदा मत्त्वेन तादृशभ्रमस्यानुभविकत्वात् । श्रथ रजतरङ्गयो रजतरङ्गरजतभेदाग्रहान्न युगपत् प्रवृत्तिनिवृत्तौ । न चान्यथाख्या तिः, दोषवात् पुरोवर्तिनं विहाय स्मृतरङ्गरजताभ्यां पुरोवर्त्तिनि भेदामंसर्गाग्रहात् । न । एकरङ्गरजतमात्रज्ञानानन्तरं तयोरेव यमजयोर्विपरौतनमेऽतिप्रसङ्गात् । अन्यथाख्यातेश्च । रजते
For Private and Personal Use Only