________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६६६
आत्मतत्त्वविवेके सटीक
ख्यातित्वस्य प्रतौतिः कथं नास्तौति । तथा चोभयवादिमिद्धत्वान्न विवादावसर इत्यर्थः ॥
न चान्यज्ञानादन्यत्र प्रत्तिसम्भवोऽतिप्रसङ्गात् । न च तज्ज्ञानसान्निध्यं नियामकमतिप्रसङ्गादेव। न च तत्सहितो भेदाग्रहः, अग्रहप्राधान्ये भेदाविवक्षायां निवृत्तेरपि प्रसङ्गात्, तवेतोरभेदाग्रहस्यापि विद्यमानत्वात् । नासौ निवर्त्तकः, अपि तु भेदग्रह इति चेन्न, रजत एव नेदं रजतमिति कृत्वा न निवर्तेत, भेदग्रहस्य तत्कारणस्याभावात्, भावे वा विपरीतख्यातिरभिन्ने भेदप्रत्ययात्, तस्मात् प्रवर्तकवन्निवतकोप्यग्रह एव तेषां स्वौकर्तुमुचितः, तथा च म दोषस्तदवस्थ एव।
शङ्क • टौ. । इदानौमिदं रजतमिति विशिष्टज्ञानमिति माधयति । न चेति। रजतज्ञानाच्छुको प्रवृत्तिर्विशिष्टज्ञानमन्तरेणानुपपन्नेत्यर्थः । ननु सक्रिज्ञानमविहितमेव रजतज्ञानमिति कृत्वा रजतार्थो शुक्रो प्रवर्त्तत इत्यत आह । न चेति । नवग्रहौतभेदं ज्ञानदयं प्रवर्तकमतो नातिप्रसङ्ग इत्यत आह । न चेति : तत्महित इष्टज्ञानसहितः। तथा चेष्टभेदाग्रहः प्रवर्तक इत्यर्थः । श्रग्रहप्राधान्य इति । दृष्टभेदो वस्तुगत्याऽस्तु मा वा. परन्विष्टभेदाग्रहः प्रवर्तक इति चेदुच्यते तदानिष्टभेदोस्तु मा वा तदग्रहः एतौ निवर्त्तकोपि स्थादिति युगपत्प्रवृत्तिनिवृत्ती
For Private and Personal Use Only