________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बाह्यार्थभगवादः।
६६६
विवक्षापचे दोषाकरमभिधात विकल्पः । (१ दृष्टाभेदस्याग्रहो वा निवर्तक इभेदग्रहो वा। आधे निवृत्तेरपौति। अन्यं शते । नासाविति । निरस्थति । रजत एवेति । उपसंहरति । तस्मादिति ॥
अथ भेदः प्रधानम्, अङ्गमग्रहः, तदा सत्यरजतज्ञानाद्रजते न प्रवर्तेत, इदमंशरजतांशयोर्भेदाभावादिति स्वयमूहनीयम्।।
शङ्क० टौ । ननु पुरोवर्तिरजतयोर्यत्र वास्तवो भेदो भवति तत्र भेदापात्प्रवृत्तिः, प्रक्षते च पुरोवर्तिरजतयोरस्ति भेद इति तदयहात्मवर्तत इति गते । अथेति । भेदस्य प्राधान्यं प्रवृत्तिविषयनिष्ठत्वम् । परिवारमाह । तदा मत्येति । तत्र पुरोवर्तिरजतयोर्वास्तवभेदाभावादित्यर्थः ॥ .
भगौ० टौ० । अयमाणो भेदो रजतपुरोवर्त्तिज्ञानमहितः प्रवर्तक इति कल्पमाशय निराकरोति । अथेति । येन केनापि भेदयहस्य प्रवर्तकत्वेऽतिप्रसङ्गादिष्टेन समं भेदाग्रहो वाचः, मोपि न यस्य कस्यचिदतिप्रसङ्गादेव, अपि तु प्रवृत्तिविषयस्येति वाचम, तथा चेष्टेन समं पुरोवर्त्तिना भेदम्याग्रहे सत्येव रजते प्रवृत्तिनं स्यात्, न हि तवेष्टप्रतियोगिको भेदोऽस्ति यस्थाग्रहः प्रवर्तयेदित्यर्थः ॥
(१) अनिलभेदस्याग्रहो इति ३ पु० पा० ।
For Private and Personal Use Only