________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
बाह्यार्थभङ्गवादः ।
Acharya Shri Kailassagarsuri Gyanmandir
पर्वतत्वमात्रेण पक्षत्वात्, तथेहापि परमाणुत्वस्थूलत्वोदास्येन घटत्वमात्रेण पचत्वान्न दोष इति वाच्यम् । परमाणुम्थूल माधारणस्य घटत्वस्यैकस्याभावात् श्रतावृत्तेरपि तदर्थभेदेन भेदात् घटपदवाच्यत्वस्यापि व्यवहारादिना स्थूल एवं निर्णीतत्वात्, स्थूलप्रत्ययविषयत्वम्य च परमाणावसम्भवात् । मावयवत्वं च यदि प्रसिद्ध तदा तत्रैव सत्त्वमनैकान्तिकम्, अप्रसिद्धं चेतनिषेधानुपपत्तिः माध्येन विरोधः पक्षस्य तदभाववत्त्वम् ॥
६५०
9
अथ परमाणुरेव, कथं न सिद्धसाधनम् । विप्रतिपनं प्रति न तथेति चेत्, न वै कश्चित् परमाणनां निरवयवत्वे विप्रतिपद्यते । लोकव्यामोहनिबर्हणाय साधनमिति चेत्, तथापि यं लेाकः स्थूलमेकमुपलब्धवान् तस्य पक्षत्वे विरोध एव ततोऽन्यस्य पक्षत्वे सिद्धसाधनमेव। एकः स्थलाऽयमिति मिथ्येति चेत्, एतदेव तर्हि माध्यताम्, किमनेनाजागलस्तनकल्पेन मत्त्वेन। न च तचैवेदं शक्यमुपसंहर्त्तुम्, व्यधिकरणत्वात्, तस्माद्येन रूपेण यस्य पक्षत्वं विवक्षितम्, तेन सिषाधयिषितधर्मविरोधविवादाभ्यां तचानुमानप्रवृत्तिर्नानोऽन्यथेति ।
(१) कचित्प्रत्यक्ष मिति १ ० पा० ।
(२) परमाण्वादिदेव इति १ ० पा० ।
83
For Private and Personal Use Only