________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६५६
आत्मतत्त्वविवेके सटीके
स्तौति तस्यां निर्भरः कर्त्तव्यः । इह तु घटादिव्यपदेशेन स्थूल एव यदि पक्षीकृतः, कथं निरवयवत्वेन साध्येन न विरोधः ।
शङ्क० टौ । ननु पर्वतोऽग्निमानित्यादावपि पर्वतपदार्थापरि च्छेदनिबन्धना दोषाः प्रमज्येरन्नित्याशङ्कते । पर्वतादिवदिति । ब्रह्मपरिणामपत्चो वा विवर्त्तपो वा । सर्वत्र पर्वतस्तद्रूप एव न पर्वत इति तत्र नाश्रयामिद्धिरित्याह । नैवमिति । पर्वते ब्रह्मविवर्त्त तादृशेनेव धूमेन तादृश एव वहि: माध्यत इति न विरोध इत्यर्थः । श्रत्रानुरूपमुदाहरति । स्वप्नेति । प्रकृते वैषम्यमित्याह । इह त्विति । घट इति पदं स्यूतवाचकं परमाणुवाचकं वेति विकल्पतः कथं बाधमिद्धमाधने न स्यातामित्यर्थः ॥
भगौ० टौ० ० । इह त्विति । ननु यथा निर्वज्ञे: पर्वतस्य पचत्वे वानुमाने बाधः स्यादिति वस्तुतो यः मवद्भिः पर्वतवत् तत्त्वेनाज्ञायमानः पर्वतत्वेन ज्ञायमानः म पक्षः, तथा वस्तुतः परमाणुपुत्र एव तत्त्वेनाज्ञायमानो घटत्वेन ज्ञायमानः पक्षः स्यादिति न विरोधः, घटत्वञ्च जातिर्व्यावृत्तित्वं वेत्यन्यदेतत्, न वा यत्र शब्दादुपस्थितिस्तत्र मावयवलेन भानं, तस्याशक्यत्वात् । अत्राहुः । बाधस्यैवायं प्रमङ्गः ॥
रघु ० टौ ० । इह त्विति । न च यथा वहिमतः पचत्वे सिद्धसाधनं निर्वश्च तसे वाघ इति न दूषणम्, तदौदासीन्येन
For Private and Personal Use Only