________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बाह्यार्थभगवादः।
६५३
बाधकाभावेन व्याप्स्यसिद्धेः। यत्सत् तत्सावयवं यथा घटः सच्च विज्ञानमिति चार्वाकपरिवर्तस्याप्यवकाशाच्च । समो वा समाधिः।
गङ्क • टौ। एतेनेति । स्थौल्यव्यवस्थापनेनेत्यर्थः । विपर्यय इति । मदपि स्यान्न तु निरवयवमित्यच बाधकं नास्तीत्यर्थः । ममो वेति । एतस्यासाधकत्वे बदनुमानमपि न माधकम्. उभयत्राप्यनुकूलतर्काभावादित्यर्थः ॥
भगौ• टौ । एतेनेति । एकः स्थल इति प्रत्यक्षबाधेनेत्यर्थः । विपर्यय इति। विरुद्धधर्माध्यासस्य प्रागेव निरामादित्यर्थः ।।
ननु निरवयवमेव विज्ञानं स्वसम्विदितरूपं, घटस्य च सावयवतायामद्यापि विवाद एव, तत् कथं परिवतः कथं वा समः समाधिरिति चेत्, शुष्कविवादस्य विज्ञानेऽपि दर्वारत्वात् । न हि कश्चित् कण्ठोष्ठपार्श्वजठरादिपरिहौनं पिठरमनुभवति। अस्तु वा सत्त्वात् मप्रतिघत्वसिद्धिर्बुडावप्रतिघत्वं वा घटादाविति ।।
शङ्क० टौ । ननु मत्त्वस्थ मावयवत्वसाधकस्य विज्ञान एव व्यभिचार इति कुतः साम्यमिति पाते । नन्विति । त्वदभिमतस्य निरवयवत्वमाधकस्य सत्त्वस्यापि घट एव व्यभिचार इत्यभिप्रायेणाह । गुलेति । परानुमाने बाधमाह । न हि कश्चि
For Private and Personal Use Only