________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बाह्यार्थभगवादः ।
शाडू. टौ। वैलक्ष्येति । पराजयेन लज्जितस्य तव जम्भणमित्यर्थः । इदमेकं स्थलमित्यनन्यथा सिद्धेन प्रत्यक्षेणैवावयविन उपलम्भात् कानुपलम्भ इत्याह । स्थलैकेति ॥
भगौ० टौ । स्थूलैकेति । एकस्य परमाणोरस्थूलत्वात्तावदेशाव्यापकत्वात्तावद्देशव्यापकानां च परमाणनामनेकत्वादेकः स्थल इति बाधरहितं प्रत्यक्षमवयविनि मानमित्यर्थः ॥
विकल्पमात्र तदिति चेन्न । स्पष्टप्रतिभासत्वात् । औपाधिकमस्य स्पष्टत्वमिति चेत्, तथाभूतानुभवमन्तरेणोपाधेरप्यभावात् । अन्यथा नौलादिविकल्यानामपि तथैव स्पष्टत्वोपपत्तौ सर्वप्रत्यक्षाच्छेदप्रसङ्गात्, गृहौतनिश्चित एवार्थे (१)प्रत्यक्षप्रामाण्यात्, निश्चयोपल्लवे तस्याप्युपलवादिति ।
शङ्क० टौ । विकल्पमात्रमिति । मविकल्पकं तत्, तन्न प्रमाणम्, निर्विकल्पकं च तथा नास्तीत्यर्थः । स्पष्टेति । साक्षाकारिवादित्यर्थः । औपाधिकमिति । अतो न तत्तदधौना वस्तुव्यवस्थितिरित्यर्थः । तत्रोपाधिरपि निर्विकल्पकमेव, तथा च सिद्धं तत्प्रामाण्यमित्याह । तथाभूतेति। अनुभवो निर्विकल्पकम् । विपक्षे दण्डमाह । अन्यथेति । ग्टहौतनिश्चिते निर्विकल्पक
(१) प्रत्यक्षस्य इति १ पु० पा० ।
For Private and Personal Use Only