________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६३६
यात्मतत्वविवेके सटौके
__ भगौ० टी० । ननु हेतु फन्लभावानुपपत्त्या ज्ञानं न सत्तदमत्त्वे च नदधौनमिद्धिकमपि नेति नित्यानित्याभावे शून्यता स्थादित्यत आह । एतेनेति । ननु सन्न कार्य सत्त्वात्, प्रसन्नपि (न) कार्यमतिप्रसङ्गादित्यत्राह । सत्कार्यति ॥
रघु० टौ•। स्यादेतत् । ज्ञानं ज्ञेयं वा घटादिक कारणजन्यमजन्यं वा, अजन्यत्वे कादाचित्कवानुपपत्तिः, जन्यत्वं चेदमतो जन्यत्वेऽतिप्रसङ्गः, मतश्च जन्यत्वे मत्त्वाविशेषाजन्यजनकभावनियमानुपपत्तिः, न च अन्यत्वाजन्यत्वाभ्यामन्यःप्रकारः सम्भवतीत्यवयविप्रभतेरनित्यवर्गम्य विलयः, विलौने च तस्मिंस्तदधौनमिद्धौनां परमावादौनां नित्यानामपि विलय इति सर्वविलोप इति, तदेतन्मतं निरस्यति । एतेनेति । बाध्यबाधकबाधादिज्ञानानामवण्योपेयत्वेनासती जन्यत्वे स्वभावनियमानातिप्रमङ्ग इति भावः ॥
स्यादेतत् । मा भूवन्नेतानि (१)दूषणान्यवयविनि, अनुपलम्भस्तु स्यात्, न हि परमाणुसञ्चयादपरं किञ्चिदुपलभ्यत इति चेत्, वैलक्ष्यविष्टम्भिकेयम्, स्थूलैकानुभवस्य सर्वजनसिद्धत्वात् ।
(१) बाधकान्यवयविनि इति १ पु० प्रा० । (२) विज्टम्भिकेयमिति १ पु० पा० ।
For Private and Personal Use Only