________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बाह्यार्थभगवादः ।
६३५
कार्यदूषणस्य च प्रत्यक्षबाधितत्वात्, तत्प्रति पारडस्यासत एवोत्पत्तावनैकान्तिकत्वात् सत्त्वे वा प्रयासवैफल्यादिति ।
शाङ्क ० टी० । एतेनेति । बुद्धिनिरीकरणव्यवस्थापनेनेत्यर्थः । हेतुफलभावे सत्यवयविनः कार्यत्वस्य तन्मूलकारणपरमाणोच्च मिद्धिः स्यात्, म एव तु नास्ति, एवं च कारणाधीनोत्पत्तिका बुद्धिरपि नास्तीति सर्वविलोप इत्यर्थः । तबिराकरणेति । हेतुफलभावनिराकरणं यदि सफलं तदा सिद्ध एव हेतुफलभावः, अथ निष्फलं तदा तनिराकरणप्रयासो विफल एवेत्यर्थः। ननु मत एव घटादेत्पित्तिः सत्वादेवेति यदि हेतुफलभावो दूयते तदाऽस्मदभिमतमेव, अथासन्नपि घटादि
त्पद्यते, अमत्त्वाविशेषेण घट एव दण्डादेवत्पद्यते न तु पट इति तनियमानुपपत्तिरिति हेतुफलभावं दूषयसि, तदा प्रत्यक्षबाधः, न हि घटोत्यत्तेः पूर्व केनापि घट उपलभ्यते. नियमस्तु कारणस्वाभाव्याधीमो न नियोत पर्यनुयोक्रुमर्हतौत्यर्थः। किञ्च घटो नोत्पद्यते ऽसत्त्वादिति दूषणप्रतिपादने हेतुफलभावनिराकरणप्रतिपादने चानैकान्तिकमित्याह । तत्प्रतिपादनस्येति। यदि च तत्प्रतिपादनमपि पूर्व मदेव तदा तदर्थ तवायं प्रयासो विफल इत्यर्थः ॥
(१) वैयर्थ्यादिति ३ पु० पा० ।
For Private and Personal Use Only