________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बाह्यार्थभगवादः ।
६३१
रघु० ट ० । बुद्धेविलोप इति। तथा च न बुद्धिप्रतिबन्द्या (१)बोध्यबाधकेनिराकरणमिति भावः ॥
अत्र तु किं वक्तव्यं यत्र हेत्वादिव्यवहारो नास्ति । अस्तु परं साम्वृत इति चेत्, भवेदेवं यदि सम्वृतिपि परमार्थसतौ स्यात्। अन्यथा तु यथा न वास्तवस्तथा न साम्वृतोपि । सम्वृतिरपि सम्वृतिसतौति चेत् , अस्या अप्यसत्त्वे न किञ्चिदधिकमुक्तम्। परसम्वृतेस्तु परमार्थसत्त्वस्वीकारे सैव बुद्धिरपरिहेयेति। सतौ च बाधकवतौ चेति सम्वृतिसती चेति चेत्, सत्येव यदि तत् कथं बाधकम्, तथा चेत् कथं तदालौढस्य सत्त्वमिति ।
शङ्क • टौ. । हेवादिव्यवहार इति । व्यवहारस्य बुद्ध्यधौनत्वेन बुद्धेरभावे हेतुपक्षदृष्टान्तादौनामभावाबुद्धिविलोपः कथं साध्य इत्यर्थः। पारमार्थिको हेत्वादिव्यवहारो जगतः शून्यतां विहन्ति, न तु माम्वृतोपौत्याह । अस्विति। साम्वृतत्वमपि सत्या सम्वृत्या निर्वहेन त्वमत्येत्याह । भवेदिति। परमम्वतेरिति । चरमा सम्वतियदि परमार्थसतो तदापि न शून्यता तस्या एव बुद्धः सत्त्वात् । मनु चरमापि बुद्धिः मतौ, परं तु विविच्यमाना मापि बाध्येत्याह । मती चेति। तदालौढस्थति। बाधकाक्रान्तस्येत्यर्थः ॥
(१) बोध्यबाधक इति २ पु० पा०
For Private and Personal Use Only