________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
स्यात्मतत्त्वविवेक सटौके
हर्त्तव्यत्वाहा, बोध्यवदिति शक्यते। विपर्ययस्यापि धर्मिग्राहकमानसाधितत्वादनवकाशमिदमिति चेत्, एवमन्यचापि प्रतिसन्दधौथा इत्येषा दिक् ।
शङ्क० टी०। अन्यथेति । यदि जात्युत्तरमपि प्रतिषेधकमित्यर्थः । उत्तराभासत्वमेव दर्शयति । मापि हौति । बोध्यवदिति। अवयव्यादिवदित्यर्थः। विपर्ययस्येति। बुद्धौ षट्दयोगित्वविपर्ययस्य मूर्तिमत्त्वविपर्ययस्य चेत्यर्थः ॥
भगौ• टौ । अनुमानेत्यपलक्षणम् । षट्कसमूहालम्बनाया बुद्धेरनुव्यवसायमाक्षिकत्वादित्यपि द्रष्टव्यम् । विपर्ययस्येति । निरवयवत्वस्येत्यर्थः ॥
अन्यस्तु चक्षुषी निमौल्य निर्भयौभवितुमिच्छन्नाह, अस्तु तर्हि बुद्धेरपि विलाप इति ।
पाङ्क • टौ । निर्भयौभवितु मिति । बुद्धिप्रतिबन्द्या वृत्तिविकल्पादिकं परेणोवियते, बुद्धेरनभ्यपगमे मम कुतो भयमित्यर्थः ।।
भगो . टी. । सम्पति परमाएवादौ वृत्तिविकल्पो बुद्धिप्रतिबन्द्या समाधेयः, तईि तत एव बुद्धिरपि मा भूदिति माध्यमिकमतमुत्थापयति। अन्यस्विति । अनिष्टमाधनताज्ञानाभयं ज्ञानाभावे तु तन्नास्तीत्युपहामः ॥
For Private and Personal Use Only