________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षणभङ्गवादः ।
भगौ० टी० । योग्यता कार्यप्रयोजकरूपवत्ता । सा च द्वयो कार्योपधानप्रयोजकरूपवत्ता कारणतावच्छेदकरूपवत्ता च। तत्राद्या महकारियोग्यता अन्या स्वरूपयोग्यता । तामिमां क्रमेण विकल्पयति । सहकारोति । प्रातिखिको स्वरूपयोग्यतेत्यर्थः । सहकारिमौजमधिकृत्य यदि बीज महकारिसमवहितं स्यात् तदा कुर्यादिति प्रसङ्गे सिद्धसाधनमिष्टापत्तिः तदममवहिते तु करणप्रयोजकसहकारिसमवधानरूपापादकासिद्धिः विपर्यये तत्कारित्वात् । सहकार्यममवहितमित्यत्र महकारिविरहिणि मिद्धसाधनम् सहकारिसमवहिते तु कारिण्यकारिण्यकारित्वस्य हेतोरसिद्धिरित्याह । सिद्धमाधनादिति। परः स्थिरवादौ । प्रसङ्गे सिद्धसाधनं विवृणोति । यदिति । तत्रैवासिद्धिं स्पष्टयति । न चेति । विपर्यये त्वसिद्धेविवरणं यदिति। मिद्धमाधनस्य तु न चेति ॥
रघु० टी० । प्रातिखिको प्रतिकारणजातीयनियता। मिद्धमाधनादिति। सिद्धसाधन हेत्वमिद्धी विपर्ययप्रसङ्गयोः। परः स्थिरवादी। विपर्यये मिद्धमाधनं विवृणोति। यदित्यादिना । यदि कश्चिदकुर्वाणमपि कारणजातीयं महकारिसमवहितमभ्यपेयात् तदा तं प्रति तस्याकारित्वेन सहकारिसमवधानाभावः माधयितुमुचितः न वेतदस्ति सहकारिसमवहिते करणनियमाभ्युपगमेनार्थतोऽकारिणः सहकारिममवधानाभावनियमस्याप्यभ्युपगतत्वात् । तथा चाकुर्वाणे सहकारिसमवधानाभावमाधने सिद्ध
For Private and Personal Use Only