________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्मतत्वविवेके सटी के
अतिप्रभङ्गादिति । सामर्थभेदव्यवहारो यदि यावत् तावत् प्रयोजकविरहे ऽपि स्यात् अभिन्ने ऽपि स्थादित्यर्थः ॥
रघु० टो० । विकल्पभेद इति। उपाधिरित्यादिकमनुषज्यते। भेदप्रसङ्गादिति। तथा च व्याप्तिपक्षधर्मताज्ञानाभ्यां विषयौकृतयोर्भेद व प्रसङ्गादिवातेति भावः ॥
नापि द्वितीयः। सा हि सहकारिसाकल्यं वा प्रातिस्विको वा। न तावदाद्यः पक्षः सिद्धसाधनात् परानभ्युपगमेन हेत्वसिद्धेश्च। यत् सहकारिसमवधानवत् तद्धि करोत्येवेति को नाम नाभ्युपैति) यमुद्दिश्य साध्यते। न चाकरणकाले सहकारिसमवधानवत्त्वमस्माभिरभ्युपेयते यतः प्रसङ्गः प्रवर्तेत ॥
शङ्क० टौ । योग्यतापक्षं दूषयति । नापौति । मा ति । प्रति खं नियता प्रातिखिको। यथा बीजेषु बोजत्वं तन्तुषु तन्तुत्वम्। तत्तत्कारणतावच्छेदिका जातय इत्यर्थः। सिद्धमाधनादिति। संग्रहं विवृणोति। यदिति। परानभ्युपगमेनेति विवृणोति । न चेति। अकुर्वतः कुशूनस्थस्य बीजस्य परेण नैयायिकेन सहकारिसमवधानानभ्युपगमात् तर्कस्य पराभ्युपगममादायैव प्रवृत्तेरित्यर्थः ॥
(१) नाम्यपगच्छति-पा० १ पु० ।
(२) समवधानवत्तास्माभि-पा. १ पु.।
For Private and Personal Use Only