________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षणभङ्गवादः।
४५
पर्यायेति। बोधकशब्दभेदेन बोध्यव्यावृत्तिभेदे पर्यायोच्छेदः भिन्नयोरभिन्नप्रवृत्तिनिमित्तकत्वं पर्यायत्वम् ॥
नापि विकल्यभेदः स्वरूपकृतस्य तस्य व्यात्तिभेदकत्वे ऽसमर्थव्याहत्तेरपि भेदग्रसङ्गात् । विषयकृतस्य तु तस्य भेदकत्वे ऽन्योन्याश्रयप्रसङ्गात्() । न च निनिमित्त एवायं व्यात्तिभेदव्यवहारोऽतिप्रसङ्गात् ॥
शङ्क. टी. । कारित्वप्रकारकज्ञानात् समर्थत्वप्रकारकं ज्ञान • मन्यदिति त दादपि न भेद इत्यत आह । नापीति। स्वरूपकृतस्येति । ज्ञानव्यक्तिभेदमात्रकृतस्त्यर्थः । अन्योन्याश्रयेति । विषयभेदाधौनो विकल्पभेदो विकल्पभेदाधौनच विषयभेद इत्यन्योन्याश्रय इत्यर्थः ॥
भगौ• टौ । ननु विकल्पभेद एव व्यावृत्तिभेदोपाधिः स्यादित्यत आह । नापौति । स विकल्पभेदः स्वरूपकृतो विषयकृतो वा। नाद्यः एकत्राप्यमामर्थ्यव्यावृत्तौ विकल्पव्यक्तिस्वरूपभेदाधौनभेदापातादित्यर्थः । वस्तुतो ज्ञानव्यक्रिभेदस्य विषयभेदनियतत्वेन यस्य व्याप्तिः प्रतीता न तस्य पक्षधर्मवमित्यनुमितिमात्रीपछेद इति भावः । नान्यः व्यावृत्तिभेद विषयत्वेन विकल्पभेदमिद्धिः ततश्च व्यावृत्तिभेदसिद्धिरित्यन्योन्याश्रयादित्याह । विषयकृतस्येति ।
(१) परस्पराश्यत्वप्रसङ्गात्-पा० १ पु० |
For Private and Personal Use Only