________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४४
यात्मतत्त्वविवेके सटीके
न्यदेवकारिपदवाच्यत्वमिति कथं न भेद इत्यत आह । न चेति । शब्दभेदादेव यद्यर्थभेदस्तदैकस्मिन्नर्थ शब्दानां वृत्तिः पर्यायत्वं तन्त्र स्थादित्यर्थः ॥
भगौ० टी० । औपाधिकं व्यावृत्त्योर्भेदमाशय दूषयति । नापौति। यथा कार्यत्वानित्यत्वयोः प्रागभावध्वंसरूपोपाधिभेदाभेदस्तथा प्रकृते ऽपि व्यावृत्त्योर्न कश्चिदपाधिभेद इत्यर्थः । ननु कारित्वपदवाच्यत्वसमर्थपदवाच्यत्वरूपोपाधिभेदायावृत्तिभेदः स्थादित्यत श्राह । न चेति। यद्यपि शब्दभेदस्योपाधित्वे ऽप्यभिन्नप्रवृत्तिनिमित्तकतया पर्यायत्वं स्यादेव तथापि सदभेदादर्थभेदः कल्प्यत इति मते पर्यायशब्दोच्छेदो दूषणमित्यर्थः । वस्तुतो यदि कुशूलस्थं बीज समर्थपदवाच्यं स्यात् कारिपदवाच्यं स्थादित्य नेटापत्तिः । तस्यापि कारिपदवाच्यत्वाभ्युपगमात् विपर्यये च हेत्वसिद्धिरिति भावः ।
रघु० टौ । ननु माभूदिह स्वव्यावर्त्यभेदेन विरोधः स्वावच्छेदकोपाधिव्यावर्त्यभेदेन तु स्यात् प्रागभावत्वध्वंसवलक्षणावच्छेदकोपाधिव्यावर्यभेदादिव कार्यत्वानित्यत्वयोरित्याशय निराकरोति। नापौति । कार्यत्वेति । परेषामभावस्यालोकत्वेन वास्तवस्य व्यावतस्य विरहे ऽपि व्यावहारिकं तबोध्यम् । प्रागभावावच्छिन्न मत्त्वं कार्यत्वं ध्वंसावच्छिन्नं चानित्यवं स्वमतेनोक्तमित्यपि केचित् । शब्दमात्रबोधकशब्दवृत्तिरानुपूर्वीभेदादिरूपाधिर्विरोधमम्पादक इति शेषः ।
For Private and Personal Use Only