________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षणभङ्गवादः ।
रघु० टौः। नापौत्यादि । तयोरेकेन व्यावर्ट योरपरेणाक्षेपप्रतिक्षेपाभ्यां परिग्रहपरित्यागाभ्यां द्विविधाभ्यामुपदर्शिताभ्यां वृक्षत्वमिंगपाववत् यवत्वाकुरत्वकुर्वद्रूपवच्च । परापरभावेति। मिथो व्यभिचारस्थाप्युपलक्षकम् । परापरभावस्य मिथो व्यभिचारस्य चाभ्युपगमे दोषमाह । अभ्युपगमे वेत्यादिना। सामर्थ्यस्य परत्वे समर्थस्थाप्यकरणं कारित्वस्य परत्वे तु असमर्थस्यापि करणं मिथो व्यभिचारे भयं प्रसज्येत । तथा च समर्थस्याकरणे व्यभिचारः असमर्थस्य करणे तु विरोधः। विरोधाय दत्ते जलाञ्जली क विरुद्धधर्माध्याम इति भावः ॥
नाप्यपाधिभेदात् कार्यत्वानित्यत्ववत् तदभावात् । न च शब्दमावमुपाधिः पर्यायशब्दोच्छेदप्रसङ्गात् ॥
प्र. टी. । ननु गोत्वाश्वत्ववत् परस्परपरिहारो वृक्षत्वशिंशपात्ववत् सामान्य विशेषभावो वा मास्तु उक्तदोषात् किंतु कार्यत्वानित्य ववत् ममव्याप्तिरस्तु तथा च स्यादेवापाद्यापादकभावो भेदाधीन इत्यत आह । नापौति । उक्रोपाधेरन्यस्मादुपाधिभेदादित्यर्थः । प्रागभावावच्छिन्नमत्तायो गिलं(१) कार्यत्वं ध्वंसा. वच्छिन्नमत्तायोगित्व(९)मनित्यत्वमित्युपाधेर्भिन्नत्वमस्तु प्रकृते तु न तथोपाधिरस्तौत्याह । तदभावादिति । ननु समर्थपदवाच्य त्वाद
(९) सत्ताप्रतियोगित्वं-पा० २ पु० । (२) सत्ताप्रतियोगित्वात्-पा० २ पु० ।
For Private and Personal Use Only