________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्मतत्त्वविवेके सटीके
परभावानभ्युपगमात् । अभ्युपगमे वा समर्थस्याप्यकरणमसमर्थस्यापि वा करणं प्रसज्येत ॥
शङ्क. टी. । ननु गोत्वाश्वत्ववत् परस्परात्यन्ताभावसामानाधिकरण्यं मास्तु वृक्षवशिंगपात्ववड्याप्यव्यापकभाव एव व्यावृत्योः स्यादेतावतापि भेदः सियत्येवेत्यत आह । नापीति । श्राक्षेपः महः प्रतिक्षेपो व्यवच्छेदः तथा च वृक्षत्वस्य पनसमझाहकत्वं शिशपात्वस्य च तयवच्छेदकत्वम् । न चैकस्यैतदुपपद्यते इति तयोर्भदोऽस्तु सच व्याप्यव्यापकभावाधीनः । प्रकृते च तथाभ्युपगमे सामर्थस्य व्यापकत्वे कथमापादकत्वं व्यभिचारात् । व्याप्यत्वे तु सामर्थ्य विनापि कारित्वं स्थादित्यनिष्ट मित्यर्थः ॥
भगौ० टी०। नापीति । आक्षेपो व्याप्यापेक्षयाऽधिकमंग्राहकवमिति यावत् । प्रतिक्षेपो व्यापकोपग्टहीतकिञ्चित्प्रतिपकत्वं व्याप्यत्वमिति यावत् । यथा वृक्षत्वेनाचिप्तपमसादिप्रतिक्षेपकं शिंगपात्वमित्यपि नास्ति । कारित्वसमर्थत्वयोप्प्यव्यापकभावानभ्यपगमादित्यर्थः । अभ्युपगमे वा परापरभावस्थेति शेषः । कारित्वस्य समर्थत्वव्यापकत्वे दोषमाह। समर्थस्थापीति। तथा च तत्रैवानेकान्तिकमिति भावः । व्याप्यत्वे दूषणमाह। असमर्थस्थापौति । तथा च समर्थत्वं विहायापि कारित्वमिति विरोध इति भावः ।
For Private and Personal Use Only