________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६२०
आत्मतत्त्वविवेके सटौके
वा काल्यैकदेशयोरन्यतरेण सम्भाव्यते तच्चेन्नास्ति तदानुपपत्तिरित्याशङ्कार्थः । बौद्ध एव समाधत्ते । स्वरूपेणेति बम इति । तदेतत्तुल्यन्यायतया परिहरति। स्फुटमिति । तार्किकवेदिका तार्किकाध्यापनस्थानं तत्र विटको धूर्तः । दूरं गत्वा खदोषममाधानावसरे ॥
भगौ० टौ० । निःशेष इत्यादिना कात्स्येन विकल्पामम्भव उनः । समुदाय इत्यादिनैकदेशविकल्याभावो दर्शितः । स्फुटमित्यादिनाऽवयविनोप्यवयवेषु स्वरूपेण वृत्तिरस्वित्यभिप्रेत्योपहमितम् ॥
रघु० टौ. । तद्विषयिणोत्यादौ तड्यां समुदायपरामर्शः । तार्किकवेदिका तार्किकाणां मंमिलनस्थानं तत्र विटङ्को धूर्त्तः । सुदूरं गत्वा स्वपक्षदूषणनिरमनावसरमामाद्य ॥
एतेन तदतद्देशत्वं निरस्तम्। तथाहि। बुद्देनौलाकारतां परिच्छिन्ददध्यक्षं तदभावव्यवच्छेदमुखेन तदविनाभूतां पौताद्याकारतामपि व्यवच्छिन्यात्, तथा च कथमेका बुद्धिनौलपौताद्याकारा स्यादिति तुल्योऽनुयोगः। भवेदेवं यदि नौलाद्याकारतायाः पीताद्याकारत्वाभावाविनाभावः स्यात्, स एव तु कुतः, नौलपीताद्याकाराया बुद्धेरैकाम्येनैव
For Private and Personal Use Only