________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बाह्यार्थभगवादः।
ई..
निश्चयात् । प्रत्याकारनियतत्वे चित्रप्रतिपत्तेरप्यनुपपत्तिरिति चेत्, तदेतत् तुल्यं परमाण्ववयव्यादिवपि । न हि तत्राप्यनेकपरमाणुसंसृष्टस्य परमाणोरनेकावयवसंसृष्टस्यावयविनो वा नैकात्मताऽनुभूयते, तथात्वे वा एकस्यानेकसंसर्गप्रतिपत्तिः कदापि न स्यादिति तुल्यैवार्थगतिः। वाचि वैचित्यं तु क्वोपयुज्यत इति । __ शङ्क० टौ । एतेनेति । बुद्धिप्रतिबन्दिद्वारेणेत्यर्थः । प्रतिबन्दिमेव स्फटयति । तथाहौति । परसमाधि स्वमतसमाधानाय विशदयति । भवेदप्येवमिति । यथाऽनेकविषयत्वमनेकाकारत्वं वा बुद्धौ स्फुटसिद्धं न दोषमावहति, तथाऽनेकावथवाश्रितत्वमवयविनि बहुमंयोगित्वं च परमाणो न दोषमावहतोत्याह । तदेतदिति । तुल्यमिति । बौद्धकोटितुल्यतामेवाह । न हौति ॥
भगौ० टौ. । चित्रप्रतिपत्तेः अनेकविषयकज्ञानस्येत्यर्थः । तुल्यैवेति । एकस्या बुद्धेरनेकसंसर्गविरोधित्व लिङ्गसिङ्गिमामानाधिकरण्यानुपपत्ती व्याप्ययहात् कथकत्वव्याघात इति भावः ॥
रघु० टौ. । एतेन बुद्धिप्रतिबन्दिग्रहेण । तदविनाभूतां नौलाकारत्वाभावव्याप्याम् । चित्रप्रतिपत्तेः नौलाद्यनेकाकारासम्बनप्रतिपत्तेः । एक हि विज्ञानं यद्याकारदयं नालम्बते न
For Private and Personal Use Only