________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बाह्यार्थभगवादः ।
रूपमुपाधिमुखपिण्डमदत्वा भ्रान्तत्वेनान्यथोपपत्तौ तदिपरौतानुमानप्रवर्त्तनेऽग्नावनुष्णत्वानुमाने प्रवृत्तिप्रसङ्गात् । न च प्रत्यभिज्ञानस्य मामान्यवत् संयोगप्रत्ययस्य तदनुरूपमुपाध्यन्तरमस्ति । एवम्मतमर्यादातिक्रमे तु त्वदभिप्रेतप्रतिबन्धप्रत्ययस्यापि भ्रान्तत्वेनान्यथामिविप्रसङ्गः कथं वार्यः, तदवारणे शिथिलमूलस्तर्कः कथं प्रवर्त्तत । यथालोकव्यवस्थानं चाध्यक्षान्तरवत् संयोगस्यापि शब्दपाकजाद्यर्थक्रिया स्थितेस्तदध्यक्षस्यापि प्रामाण्यसिद्धेन भ्रान्तत्वशङ्कावकाश इति।
शङ्क० टी० । ननु द्रव्ययोरविरलदेशोत्पादनिबन्धना संयोगप्रतीतिर्यथा म एवायं गकार इति जात्यभेदालम्बना प्रतौतिर्न गकाराभेदमवलम्बते । तथा चानुपलम्भ एव चेत् संयोगस्य पदार्थान्तरवैधम्यं यत् संयोगबाधकं तत्प्रतीतिरप्रत्यूहेत्याशाइते । शब्देति। तत्र यथा गत्वाभेदो विषयस्तथा संयुक्रप्रतीतौ संयोगातिरिकं न विषयो येनान्यथा सिद्धिः स्यादविरलदेशोत्पादस्वतौन्द्रियो न तथा भवितुमर्हतौति परिहरति । अनुभवम्येति । अनन्यथासिद्धस्याप्यनुभवस्य तिरस्कारे वहावौषधग्राहि प्रत्यक्षमण्यनौष्ण्यानुमानपरिपन्थि न भवेदित्यर्थः । न चेति । म एवायं गकार इति प्रत्यभिज्ञानस्य गत्वमामान्यवदित्यर्थः। एवम्भूतेति। अनन्यथासिद्धप्रत्यक्षम्य वस्वनुरोधातिक्रम इत्यर्थः । यद्विरुद्धधर्माध्यम्तं न
(१) सिद्धेः इति ३ पु० पा० |
For Private and Personal Use Only