________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्मतत्त्वविवेके सटीके
अस्तु तर्हि चलाचलयोर्युतसिद्धिप्रसङ्ग इति चेन्न । स्वयं प्रतिबन्धासिद्धेः । न च प्रसङ्गे व्याप्तावपि पराभ्युपगमः शरणम् । न चैवं पराभ्युपगमोपि। वस्त्रोदकादौ दृश्यते तावदयमिति चेन्न। तन्तुवस्त्रादौ विपर्ययस्यापि दर्शनात् । इदं मिथ्येति चेत्, तत् कथं सत्यम् । अबाधादिति चेत्, इह तर्हि बाधकान्तरं वाच्यम् । चलाचलत्वमेवेति चेन्न। युतसिडा)वपि किमिति नेदं बाधकमिति विपर्ययस्यापि वक्तं शक्यत्वादिति।
शङ्क० टौ । यदि पाणौ चलत्य पि शरीरमचलमेव तदा पाणि शरीरयोः मम्बद्धयोरमम्बद्धयोरपि विद्यमानत्वं शादित्याह। अस्तु तौति । ननु वयोरमम्बद्धविद्यमानत्वं क्षणिकत्ववादिना नाभ्युपेयत इति न प्रसङ्ग इत्याह । स्वयमिति । ननु तर्कः पराभ्यपगमाधौनप्रवृत्तिक एवेत्याह । न चेति । आपादकस्य पराभ्यपगमस्तर्क प्रयोजको न त्वापाद्यापादकयोाप्तावपौत्यर्थः । न चैवमिति । चलाचलयोयुतमिद्धिरिति नैयायिको पि नाभ्यपगच्छतीत्यर्थः । वस्त्रोदकादौ दर्शनबलादवण्यं तथा स्वौकर्तव्यमित्याह । वस्त्रे ति । तन्तु पटयोस्तथा दर्शनायभिचारावं व्याप्तिरित्यर्थः । तन्तुपटयोरप्यसम्बद्धविद्यमानत्वमस्त्येव, मम्बन्धानुभवस्तु भ्रान्त इत्याह । इदमिति । तत्कथं मत्य मिति। वस्त्रो
(१) युतसिद्धावेव इति ३ पु, पा० ।
For Private and Personal Use Only