________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५८६
आत्मतत्वविवेक सटौके
दित्यर्थः । क इति । तयोविरोधग्राहक मानमतौत्यर्थः । प्रकारभेदेन देशकालभेदेनेत्यर्थः ॥
रघु० टौ. । व्यापकयोरस्तित्व नास्तित्वयोर्विरोधायाप्ययोविधेयत्वप्रतिषेध्यत्वयोरपि विरोध एवेत्याशयेनाशकते। यदिति । तत्रास्तित्व तत्र नास्तित्वयोर्विरोधो न पुनरम्तित्व तब नास्तित्वयोरित्याशयेनोत्तरयति । प्रतिषेधेति । शङ्किताऽऽशयं प्रकाशयितुं पृच्छति। अथेति। प्राणायं प्रकाशयति। अनयोरिति। अस्तित्वनास्तित्वयोरित्यर्थः । प्रकारेति । प्रकारो देशः । देशाभेदेन विरोधेपि न दे शभेदेन विरोध इत्यर्थः। अथैव कार्यम्य समवायिन्यव्याप्यवृत्तेश्चैकत्र धर्मिणि सत्त्वासत्त्वे न स्यातामत बाह। एतेनेति ॥
अस्तु तर्हि स्थूलघातौ विरूदधर्माध्यामो ग्रहणाग्रहणादिः पञ्चविधः । न। असिद्धेः । ___ शङ्क० टी० । स्थलघातौति । अवयविनि बाधक इत्यर्थः । पञ्चविध इति । ग्रहणाग्रहणातानावृतत्वकम्पा कम्पर कार क्रमयुकासंयुक्तरूप इत्यर्थः। वृत्तिविकल्पेन मह वा पञ्चत्वम् । नामिद्धेरि ति। समावेशस्या सिद्धेः । यहा विरोधामिद्धेः ममावेशदिवेत्यर्थः ॥
भगौ • टौ । अमिद्धेरिति । यादृशं विरुद्धं तत्र तन्मास्ति यच्च तत्रास्ति तन्न विरुद्धमित्यर्थः ॥
For Private and Personal Use Only