________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
बाह्यार्थभङ्गवादः ।
Acharya Shri Kailassagarsuri Gyanmandir
५८७
रघु० टौ० । श्रसिद्धेरिति । यादृशम्य विरोधो म तस्याध्यामो यादृशम्य चाध्यासो न तस्य विरोध इत्यर्थः ॥
तथाहि । यो येन यचैव यदैवोपलभ्यते स तेन तचैव तदैव नोपलभ्यत इति नानुभवः, नाप्यभ्युपगमः । एकावयवसहितस्योपलम्भेऽन्यावयवसहितस्यानुपलम्भ इति चेत्, एवं तर्ह्यवयविन्युपलभ्यमाने कश्चिदवयव उपलभ्यते कश्चिन्नेति वाक्यार्थः, सविशेषणे हि विधिनिषेधौ विशेषणमुपसङ्गामत इति न्यायात्, तथा चावयवानामुपलम्भानुपलम्भाववयविनि सञ्चार्य प्रसङ्गस्तदलमनेन ।
शङ्क० टौ० ! ग्रहणाग्रहणे हि तदा विरुद्धे स्यातां यदि कालाभेदेन पुरुषाभेदेन विषयाभेदेन स्यातामित्यर्थः । नन्वेक एव घट एकदा एकेनैव पुरुषेणावग्भागावच्छेदेन गृह्यते परभागावच्छेदेन न गृह्यत इति कथं न विरोध दूति शङ्कते । एकावयवेति । एवमिति । उपलम्भानुपलम्भयोरवयविनि समावेशो नोपपादित दूत्यर्थः । मञ्चार्येति । श्रवयवगतावुपलम्भानुपलम्भाववयविनि सञ्चारितावित्यर्थः ॥
For Private and Personal Use Only