________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
बाह्यार्थभङ्गवादः ।
Acharya Shri Kailassagarsuri Gyanmandir
५८३
शङ्क० टौ० | मप्तमोपोति । न व्यापकं निष्क्रियत्वप्रसङ्गादित्यनुकूल एवेत्यर्थः । नन्वयमनुकूलस्तदा स्याद्यदि त्तर्कः स्यादतः मत्तर्कतां दर्शयति । व्यापकत्वस्येति ॥
अष्टमस्तु कचिदिष्ट एव । यत एव हि क्वचिदविधेयोऽत एव क्वचिद्विधेयोऽव्यापक इति व्यवहियते । सर्वत्रेति चेन्न । व्याप्यसिद्धेः, विरोधाच्च । न हि यदव्यापकं तत् सर्वत्राविधेयमिति प्रतिबन्धः । क्वचिदस्तोत्यव्यापकार्थः सर्वत्र नास्तीति चाविधेयार्थस्तवाभिमतस्तदनयोर्विरोधोऽपि स्यात् ।
शङ्क ०
श्रष्टमस्त्विति ।
टौ० श्रविधेयत्वप्रमङ्गलक्षणः । क्वचिदिति । स्वाभावस्थले । न हि यत्र घटाभावस्तत्रापि घटो विधीयते । क्काचित्केनाविधेयत्वेन काचित्कं यद्विधेयत्वं तदेवाव्यापकत्वार्थ इत्यर्थः । सर्वत्रेति । सर्वत्रैवा विधेयत्वमापाद्यत
इत्यर्थः। अव्याप्तिमाह । न हौति । विरोधमाह । कचिदिति ॥
भगौ० टौ । श्रव्यापकत्वेन क्वचिदविधेयत्वं यद्यापाद्यते
う
नदेष्टापत्तिरित्याह । यत एवेति । ननु चाव्यापकत्वेन सर्वत्राविधेयत्वमापाद्यत इत्याह । सर्वत्रेति । व्याप्यमिद्धिं स्पष्टयति । न हौति । विरोधं विवृणोति । क्वचिदिति ॥
For Private and Personal Use Only