SearchBrowseAboutContactDonate
Page Preview
Page 593
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ५७६ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आत्मतत्त्ववित्रे महोके । प्रतियोगिताकोऽभावः संसर्गाभावः । न च गृहमंमर्गिघटभिन्नोऽयं घटइत्यत्र नैकवृत्तिधर्मेण प्रतियोगिताऽच्छिद्यते, किन्तु संसर्गेणेति तत्रातिव्याप्तिरिति वाच्यम् । तत्राप्येकवृत्तेरेव धर्मम्य प्रतियोगितावच्छेदकत्वात्, गृह संसर्गदशायामप्येत कथमन्यथा इटभिन्नोऽयं घट इति प्रतीतिः । ननु धर्मात्यन्ताभावेनैव धर्मिणोऽन्योन्याभावव्यवहारोपपत्तिः, विशेषणेति न्यायेन घटोऽयं नेति धर्मस्यैव निषेधात् । श्रन्यथा पाकदशायां रक्तोयं घटो न श्याम इति प्रतीतेस्तत्रैव तदन्योन्याभावः स्यात्, धर्माभावेनैवोपपत्तिरिति तुल्यम । न च धर्म्यन्योन्याभावेनैव धर्मात्यन्ताभावोपपत्तिः, एवं सत्याकाश एवाव्याप्यवृत्त्यत्यन्ताभावव्यवहारानुपपत्तेः श्राकाशान्योन्याभावस्याकाशेऽभावात् । श्रवाः । श्रयं घटो नेति धर्मिप्रतियोगिकोऽभावानुभूयते न धर्मप्रतियोगिकः, बाधकं विना चैतदनादरेऽतिप्रमङ्गः । धर्माभावग्रहेपि तद्धर्मान्तरात्यन्ताभावग्रह सम्भवे क्वचिदप्यविश्रान्तेः । अधिकं तु द्वितीयाध्यायप्रकाशे प्रपञ्चितमिति । वैधर्म्यस्य त्विति । विशिष्य तु तदन्योन्याभावव्याप्यधर्मत्वं तद्वैधर्म्यमित्यर्थः ॥ व्यतिरेकिधर्मत्वं वैधर्म्यमाचलचणम् । रघु॰ टौ० । धर्मान्तरेत्यभ्युपगमवादेन । धर्मपदं समवेत परम् अग्रे च तन्तुमय इति समवेतधर्मान्तरोपलचकमित्यपि केचित् । ननु स्वरूपस्य भेदत्वे इद तन्न वेति संशयो नेदं तदिति विपर्ययश्च न स्यात्, धर्मिणो ग्रहे भेदस्यैव ग्रहात्, अग्रहे च तयो For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy