________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
৩৪
आत्मतत्वविवेके मटौके
नुपलब्धिस्तत्स्वरूप द्धिरेवान्योन्याभावधौहेतुरभिमता। वैधर्म्यभेदेपि नानवस्था । यदि हि वैधर्म्यमेव पर भेदस्तदा वैधर्म्यधौव्यवहारार्थं तत्रापि वैधान्तरापेक्षा स्यात्, न चैवम्, नत्र स्वरूपादेरेव भेदत्वात् ।
एतेन यत्किञ्चिदक्कम, अनवस्थापौष्यत एव, न हि कस्यापि निर्धर्मकत्वम्, निर्द्धर्मकत्वस्यापि तद्धमत्वातद्धर्मत्वाभ्यां व्याघातादिति, तदप्य पास्तम् । वैधर्म्यभेदज्ञानस्य स्वरूपभेदेनैवोपपत्तेः ।
यदा च जातिवैधर्म्यमेव भेदस्तदा वैधान्तरानवगमान्न भेदः, तस्य तत्प्रतौतिमानकत्वात्, न हि भेदो नास्तौत्येतावतैवाभेदः, मा हि भूदभेदो नास्तीत्येतावतैव भेदः, तथा च वैधम्यं न भिन्नं न चाभिन्नं स्यादिति विरोधः ।
यच्च भेदः किं भिन्ने वर्ततेऽभिन्ने वेत्युकम्, तन्त्र, अनवस्था भामप्रसननस्य प्रसङ्गममत्वात् । भेदोपलक्षिते वस्तुनि प्रमाण प्रतीतस्यैकस्याने कस्य वा भेदस्य वृत्त्युपगमात्, न तूपलक्षणस्याप्यधिकरणकोटावन्तर्भावः । किञ्च कुत्र वर्तते भेद इत्यत्र प्रश्ने यत्र प्रमौयत इत्येवोत्तरम् । क्व प्रमोयत इत्यत्र यत्रास्तीत्येव ।
एतेन किं गवि गोत्वमुता गवि गोत्वमित्यादि प्रत्युतम् । गोत्वस्य व्यको विशेषणत्वेपि स्वव्यावृत्त्या तदपलक्षकत्वात् स्वक्रियाव्याघातश्च । खण्डकखण्डनीयविभागापरिचये भवतस्तदथें प्रवृत्त्यनुपपत्तेरिति सझेपः ।
ताट्रष्येणेति । पटस्य घटत्वेनाप्रतीतो प्रतीतिरित्यर्थः । ननु
For Private and Personal Use Only