________________
Shri Mahavir Jain Aradhana Kendra
५७२
www.kobatirth.org
आत्मतत्त्वविवेके सटीके
Acharya Shri Kailassagarsuri Gyanmandir
तदभावात्, तृतौयादिकमादाय तदभावात्, प्रमाणाभावस्य तन्मूलत्वात्, अन्यथाऽऽद्येप्यभावे भावापत्तिरित्यन्ये ।
सामान्यादिष्विति । स्वरूपभेदोन्योन्याभावश्चेति द्वयम् । यद्यपि सामान्यादिष्वपि लक्षणरूपं वैधर्म्यमस्ति श्रन्ततो निर्द्धर्मकत्वस्यापि तद्धर्मत्वातद्धर्मत्वाभ्यां व्याघातात्, अन्यथाऽन्योन्याभावस्यापि कथं तत्र निरूपणम्, तस्य वैधर्म्यग्रहनिरूप्यत्वात् । न च तदाश्रयव्यतेरेव तत्र वैधर्म्यरूपत्वम्, तथा मति व्यावृत्तावन्योन्यज्ञानजन्यान्योन्यव्यावृत्तधौरित्यन्योन्याश्रयान्नैकमपि व्यावृत्तमवगम्येत | तथापि माचात्सम्बद्धधर्माभावमभिप्रेत्यायं ग्रन्थः लक्षणानामुपाधिरूपतया परस्परासम्बन्धात् । पटोऽयमिति स्वरूपभेदकथनम् । न घट इत्यन्योन्याभावस्य तन्तुमयश्चेति वैधर्म्यम्य, एवं गुणकर्मणोरपि क्रमेणोदाहरणम ।
ननु स्वरूपं न भेदः, श्रमदमंशयविपर्ययोच्छेदापत्तेः, स्वरूपाग्रहे तयोरनवकाशात् । न च भेदग्रहेपि भेदवं तत्र न गृहीतम्, तञ्च तदविषयधीविषयत्वं विशिष्यैव निर्वक्तव्यमिति वाच्यम् । तस्यैव भेदत्वापत्तेः, तस्य वैधर्म्यरूपत्वात् । भेदस्य प्रतियोगिकत्वे निःप्रतियोगिक स्वरूपात्मकत्वामम्भवाच्च । यदि च स्वरूपं घटादिकं भेदस्तदा तद्योगादन्यो भिन्नः स्यात् भिन्नत्वे वा नामौ भेदः । नाप्यन्योन्याभावो भेदः, तद्वहो हि प्रतियोग्यधिकरणग्रहणे मति म्यात्, तयोश्च ग्रहणं धर्मिस्वरूपेणैव प्रतियोगित्वाधिकरणत्वाभ्यां वा. श्राद्ये रजतमिदमिति भ्रमो न स्यात्, पुरोवर्त्तिरजतस्वरूपग्रहेऽन्योन्याभावग्रहापत्तेः, अन्त्ये यत्किञ्चित्प्रतियोगित्वादिग्रहेऽति
For Private and Personal Use Only