________________
Shri Mahavir Jain Aradhana Kendra
५६८
www.kobatirth.org
आत्मतत्त्वविवेके सटीक
Acharya Shri Kailassagarsuri Gyanmandir
रघु० टौ० । श्रविद्यावशादिति कोऽर्थः किमविद्या प्रभावाद्भेदज्ञान स्वस्मादेव जायते इति किं वा श्रविद्यारूपात्कारणादिति : श्रद्ये किं चेति । द्वितीयमाशङ्कते । अथेत्यादि । इतरयोरधिकरणप्रतियोगिनोरितरत्वेन ज्ञानं न हेतुयनात्माश्रयः स्यादित्याशयेनाह । न चेत्यादि । प्रतियोगिरूपत्वं प्रतियोगितावच्छेदकरूपवत्त्वम् । श्रधिकरणखभावत्वं श्रधिकरणतावच्छेदकरूपवत्त्वम् । स्मृतिद्वयं ज्ञानमात्रपरम् । स्वस्मिन्नपि स्वात्यन्ताभावग्रहणादितरेतरेति । ग्रहणं प्रत्यक्षम् । भिन्नाभ्यां रूपाभ्यां प्रतियोग्यधिकरयोजनं कारणम् ; प्रतिबन्धकस्त्वधिकरणतावच्छेदकवति प्रतियोगितावच्छेदकादिग्रहः ॥
अथ स्वरूपमेव भेदप्रतिभासस्य विषय इति तत्त्वम्, तथापि सहप्रयोग एवानुपपन्नस्त्यज्यताम्, भेदेन तु किमपराधम् । सोऽपि दृश्यत इति चेत्, नैमित्तिकस्तु स्यात्, न स्वरूपतः । न हि घटमानय पटमवलोकयेत्यादौ भेदपदमपि प्रेक्षावानुपादत्ते । व्याख्यायां तु मूढप्रबोधनाय घटः कुम्भ इतिवत् सहप्रयोगेपि न दोषः ।
-
०
शङ्क० टौ । तथापौति । स्वरूपभेदस्य भेदज्ञानविषयत्वेन त्वयाऽभ्युपगमात् तत्र बाधकं द्वयोरप्यावयोर्निरमनीयमित्यर्थः । सोऽपीति । यथा भेदज्ञानमस्ति तथा महप्रयोगोप्यस्ति तथा च तद्वलाद् भदजानमेव निवर्ततामित्यर्थः । न हि घटो भेट इति
For Private and Personal Use Only