________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
बाह्यार्थभङ्गवादः ।
Acharya Shri Kailassagarsuri Gyanmandir
५६७
भगौ० टौ० । श्रविद्यापदेनान्योन्याभाव एवोच्यतेऽन्यद्वा श्राद्ये किञ्चेति । श्रन्त्ये अथेति । नाम्नोति । अन्योन्याभावनिरूपकम्यान्यम्याभ्युपगमादित्यर्थः । प्रतियोगीति । रूपत्वं धर्मः ( स्वाभावे धर्मः ) स्वभावः । तथा च प्रतियोगित्वा निरूपकधर्मेणाधिकरण ज्ञानमधिकरणत्वानिरूपकधर्मेण प्रतियोगिज्ञानमन्योन्याभावरूपभेदज्ञानहेतुरित्यर्थः । श्रभिन्नेऽपि क्वचिद्भेदग्रहस्तस्मिन्नमत्यपि भेदाग्रहश्च दोषान्महाश्चेति भावः । ननु प्रतियोगिनो ज्ञानमात्रं विवचितं स्मृतिर्वा । नाद्यः इतरेतराभावग्रहकारणमित्यत्र इतरेतरपदवैयर्थ्यापत्तेः : प्रभावग्रहमात्र एव तस्य हेतुत्वात् । न च प्रमेयपदजन्याभावग्रहे न तद्धेतु:, तथा मति तज्जन्यान्योन्याभावग्रहेपि तद्धेतुतानापत्तेः । न चान्योन्याभावत्वेन ग्रहसामग्री, घटातिरिक्रं प्रमेयमिति शब्दजतादृशज्ञाने व्यभिचारात् । अपि च यत्किञ्चिप्रतियोगित्वाधिकरणत्वाभ्यां ग्रहो न कारणम् श्रतिप्रसङ्गात्, तत्प्रतियोगित्वादिना तद्गृहस्य हेतुत्वे श्रात्माश्रयापत्तेः अन्योन्याभावत्वेन प्रत्यचे अन्योन्याभावग्रहे सामग्रीयम् । यद्वा तवात्यन्ताभावग्रहस्तटेपि भवति, न च तत्र प्रतियोगितावच्छेदकरूपभिन्नमधिकरणरूपमिति संसर्गाभावग्रहमाचे व्यभिचारान्नेदं तद्धेतुः, प्रतियोग्यादिस्वरूपग्रहम्यैव तत्प्रयोजकत्वादित्यभिप्रायः । न च भेदभ्रमस्थले भेदग्रहप्रमङ्गः, दोषस्यैव प्रतिबन्धकत्वात्, यत्र च न प्रतिबन्धको दोषस्तदन्यजिज्ञासादिक वा, तत्रान्यहेतुसम्पत्तौ भेदः प्रतौयत एव ॥
For Private and Personal Use Only