________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५६६
आत्मतत्त्वविवेके सटौके
मतोऽविद्येत्युच्यत इति विचारार्थः, नाम्नि तर्हि विवादः । न च तदपि दर्निरूपम्, प्रतियोगिरूपत्वेनापतौतावधिकरणप्रतीतिरधिकरणस्वभावत्वेनास्मृतौ प्रतियोगिस्मृतिश्चेतरेतराभावग्रहणकारणमिति निरूपणात्।
पाक टी० । स्वयमेवेति । स्वस्थ स्वं प्रत्यजनकतयाऽन्योन्याभावभेदालम्बना बुद्धिरेव नोत्पद्यत, उत्पद्यते च, तथा च कारणान्तरमनुमतमहतौति भावः । अविद्येति । भेद ज्ञानमाविद्यक म कारणान्तरापेक्षमित्यर्थः । किञ्चात इति । भेदजानं चेत्त्वयाजीकृतं तदाऽविद्या कारणात्वेन त्वयोपन्यम्यत इत्यस्मदन कूलमेवाचरितमित्यर्थः । यदा भाविद्यकमपि भेदज्ञानं न कारणनिरपेक्षं न वा खजन्यमिति कारणान्तरं तत्रावश्यं वाच्य मित्यर्थः । तथा मतौति । त्वमते घटादौनामप्यविद्याविवर्त्तत्वेन त्वयोपन्यम्यतां स्वयमेवोत्पत्तिः स्यादित्यर्थः। स्वस्मादेव तावदभेदज्ञानं नोत्पद्यते यत उत्पद्यते तद् दुर्निरूपमित्यविद्येत्तुच्यते इत्याह । अथेति । नानौति । यत् कारणं मयाऽभिप्रेतं तदेवा विद्यापटेन त्वयोच्यत इत्यर्थः । घटः पटो न भवतीत्यत्र घटावत्ति पटत्वं पटावृत्तिघटवृत्तिघटत्वखरूपेण ज्ञातं मदन्योन्याभावप्रतीतिकारणं, न तु प्रतियोगिवृत्तित्वेनाधिकरणवृत्तित्वेन येन प्रतियोगित्वाधिकरणत्वग्रहगर्भाऽन्योन्याभावग्रह इत्यात्माश्रयः स्यादित्यत आह। न च तदपौति ।
For Private and Personal Use Only