________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बाह्यार्थभगवादः ।
रेकार्थत्वात् । न च भिन्ननिरूपणं विना तदभावनिरूपणमिति । अनवस्थेति । वैधर्म्य वैधाभावे तदद्वैते धर्मिद्वैतानुपपत्तेरिति भावः । प्रमो भेदः ॥
तत् किं भेदज्ञानमेव नास्ति, सदपि वा नित्यं, अनित्यमपि ) वा निर्हेतुकं, सहेतुकमपि वा निर्विषयकं, सविषयकमपि वा बाध्यमानविषयकमिति। तत्र प्रथमः सर्वतो विरोधादनुत्तरः। द्वितीयः सुषप्त्यवस्थानुरोधादपेक्षणीयः। तृतीयोपि विरोधाद्धेयः । चतुर्थस्तु भेदोल्लेखादेव त्याज्यः । पञ्चमस्तु चिन्त्यते, किमेतेपन्यतमात्मा तस्य विषयः तदन्यो वेति । तत्र यद्यन्य एव, किमेताभिळधिकरणानुपपत्तिभिस्तस्य बाध्येत । एवं हि चौरापराधेन व्यक्तमयं माण्डव्य निग्रहः स्यात् ।
शङ्क• टौ । तत् किमिति । ज्ञानस्य ज्ञेयनिरूप्यतया भेदमिद्धिपर्यवमानादित्यर्थः । मर्वत इति(२)। भेदज्ञानं नास्तीति मर्वानुभवसिद्धज्ञानापलापः प्रतियोग्यप्रसिद्धिः स्ववचनविरोध: । न हि भेदमज्ञात्वा तदभिलापसम्भवः । वादिप्रतिवादिनो देन ज्ञाने मत्येव कथाप्रवृत्तिश्चेति । सुषुप्तेति । ज्ञानाभावदशाया एव सुषुप्तित्वादित्यर्थः । बिरोधादिति । अहेतुकत्वेऽनित्यत्वानुपपत्तेरित्यर्थः । भेदोल्लेखादित्यपलक्षणम् । ज्ञानस्य मविषयत्व
(१) अनित्यमेव इति २ पु० पा० ।
(२) सर्वत्रेति १ पु० पा० ।
For Private and Personal Use Only