________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५६४
यात्मतत्त्वविवेके सटौके
नियमादित्यपि द्रष्टव्यम् । अन्यतमोऽस्य विषयो यो बाध्यत्वेनाभिमत इति शेषः । यद्यन्य एवेति। त्वया त्वेतेषामेव त्रयाणां बाधोपन्यामाद्वैयधिकरण्यमित्यर्थः ॥
रघ• टौ। मर्वत इति । सर्वानुभवमिद्धभेदज्ञानापलापः प्रतियोग्यसत्त्वे निषेधानुपपत्तिः स्ववचन विरोधो वादिप्रतिवादिभेदज्ञानं विना कथाप्रवृत्त्ययोगश्चेति । विरोधात् अहेतुकत्वे कादाचित्कत्वविरोधात् । भेदोल्लेखादिति । घटज्ञानमित्यादौ घटादिविषयत्वस्येव भेदज्ञानमित्यत्रापि भेदविषयतायाः मर्वानुभवमिद्धत्वात् क्वचिदपि मविषयत्वस्याप्रमिद्धौ च तनिषेधानुपपत्तिः ॥
अथान्यतमात्मा,(१) तत्रापि यदि धर्मान्तरमेवेति तत्त्वं, तदाऽनवस्थाभिया तदधिक एव प्रवाहस्त्यज्यतां तस्य कुतस्त्यागः। न ह्यनवस्था प्रतिभासमानमर्थ निवर्त्तयति, किन्तु प्रवाहं परिहापयति, गन्धे गन्धान्तरवत् ।
शङ्क० टी० । वैधर्म्यभेदे बाधमुद्धरति तचापौति। स्वरूपभेदेनैव घटत्वपटत्वयोरपि भेदव्यवहारमिद्धेरित्यर्थः। प्रतिभाममानमिति। बलवत्प्रमाण विषयौभूतस्य त्यागादित्यर्थः ॥
(१) अथान्यतमोऽस्य विषय इति २ पु. पा० । ।
For Private and Personal Use Only