________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५६२
खात्मतत्त्वविवेके सटौके
मेवं तत्र तत्रापौत्यर्थः । तत् कथमिति। भिद्यत इति भेदो भिद्यते अनेनेति भेदो भेदनं भेद इति प्रकारत्रयस्थापि दुष्टत्वादित्यर्थः ॥
भगौ० टौ । भिद्यत इति भेदो भेदनं भेदो भिद्यतेऽनेनेति भेद इति व्युत्पत्त्या क्रमेण स्वरूपाद्यभिधीयत इति तद्विकल्पयति । नन्विति । महेति। स्वरूपस्य घटपदेनोकत्वात् भित्रपदं पुनरुतमित्यर्थः । श्रात्माश्रयेति । भिन्नप्रतियोगिज्ञाननिरूप्योऽन्योन्याभावो भेदश्चान्योन्याभाव एवेति तेनैव तनिरूपणादित्यर्थः । एतदेव स्पष्टयति । भिन्नति । अनवस्थति । वैधय चेदभिन्न कथं तद्योगात्तदाश्रयो भिन्नः, अथ भिन्नं तदा तत्रापि भेदान्तरं स्थादित्यनवस्थेत्यर्थः ॥
रघु० टौ०। धर्मान्तरं अनुयोगितावच्छेदकवहृत्तिवैधान्तरं, यवक्ष्यति पटोऽयं न घटस्तन्तमयशेति । महप्रयोगेति । खरूपं हि स्वस्थानुयोगिनो रूपं धर्मोऽनुयोगितावच्छेदको घटत्वादिः खयमेव रूपमनुयोग्यात्मकं वा। प्राद्ये पुनरुकत्वादन्ये र स्वस्य खानधिकरणत्वेनायोग्यत्वान्मिलित प्रयोगानुपपत्तिः। घट इत्यादौ च घटत्वादिकं स्वरूपेण सम्बन्धश्च संसर्गमर्यादया भामते भिन्न इत्यत्र च घटत्वादिकं घटत्वत्वादिना पाश्रयत्वं चाश्रयत्वत्वेन प्रकारोभूयेत्यपौनरुत्वसमर्थनेपि घटत्ववान् भिन्न इत्यादौ पौनसत्यतादवस्यमिति भावं वर्णयन्ति। भिन्नेति । इतर भिन्नयो
For Private and Personal Use Only