________________
Shri Mahavir Jain Aradhana Kendra
५४८
www.kobatirth.org
आत्मतत्त्वविवेके सटीके
Acharya Shri Kailassagarsuri Gyanmandir
สุ
प्रतिविचारबाध्यं जगदिति प्रत्यक्षस्यासिद्धेरित्यर्थः । लोकेति । ह्यनिष्टिमात्रेण किञ्चिद्वाध्यत इति स्पष्टमित्यर्थः । दोषान्तरमाह । परेति । मयान्विष्यमाणायास्वद निष्ठेनपवाध्यत्वं स्यादित्यर्थः ॥
भगौ० टी० । एतदपि विचारबाध्यमानत्वमपौत्यर्थः । अविचारेण मत्त्वमेव कुतो न स्यादिति भावः । मोऽविचारः । विरोधः तथा मति प्रत्यचप्रामाण्याङ्गीकारादित्यर्थः । श्रसिद्धिः सर्वथा विचार बाध्योऽयमर्थ इति प्रत्यक्षाभावादित्यर्थः । परेति । त्वदनिष्टिरपि परेण नेष्टव्येति सापि बाध्येतेत्यर्थः ॥
३
रघु ० टी. । एतत् (१) विचार बाध्यत्वम् । सः श्रविचारः । विरोध: अध्यक्षस्यैव मत्त्वाभ्युपगमात् । श्रसिद्धिरपि अध्यक्षेण सत्त्वादेरेवावगाहनात् । त्वदनिष्टौति पचम्यापि मङ्गारकम् ॥
एतेन हेतवो निरस्ताः । ते हि ज्ञेयत्वात् ज्ञानत्वात् असत्त्वात् विकल्पानुपपत्तेः प्रत्ययत्वात् कर्मानुपपत्तेः मिथो व्याघातादित्यादयः । एते हि सर्व एव स्वार्थक्रियाप्रतिक्षेपिकां युक्तिमाक्षिपन्ति, निषेध्यसिद्धिश्वापेक्षन्ते । अनैकान्तिकौ च प्रथमद्दितौयौ स्वफल एव व्यभिचारात्, असि तृतीयचतुर्थी, अनैकान्तिकश्च पञ्चमः पूर्ववत्, असिद्धौ व्याघातेनानैकान्तिकश्च षष्ठः, असिद्धोऽनैकान्तिकश्च सप्तमः सर्व एव कालात्ययापदिष्टा इति ॥
(१) एतदविचारेति २ ० पा० ।
For Private and Personal Use Only