________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बाह्यार्थभङ्गवादः ।
५४५
तोपि किञ्चिसिध्यति । नायमबाध्यो व्यवहार इति चेत्, न, यदि नैकत्र, अन्यत्रापि तथाभावप्रसङ्गात् । सर्वत्र बाध्यत इति चेत्, तदपेक्षसिद्धिना व्यवहारेणानपेक्षेण वा अव्यवहारेणैव वेति । यस्तावत्तदपेक्षसिद्धिः स कथं तमेव बाधेत, न ह्यनुष्णत्वानुमाने नोषणत्वग्राहिप्रत्यक्षबाधो लोके। द्वितीयस्त्वसम्भवौ, न हि निषेधकं प्रमाणं निषेध्यसिद्धिनिरपेक्षं भवितुं क्षमते। तृतीये तु तविपरीतापत्तिः, विचारबाध्यत्वमुपक्रम्याविचारेण मुद्रणात् १ ॥
गङ्ग० टौ . । प्रतिज्ञास दोषान्तरमाह। निषेध्येति। प्रथमप्रतिज्ञायां निषेध्यं सत्त्वं द्वितीयादिषु मत्यत्वादि, तत् मिद्धश्चेत् कथमत्यन्तनिषेधः । न सिद्धञ्चत्तदा कथं निषेधः, प्रमितप्रति योगिक स्यैव निषेधत्वात् इत्यर्थः। एतदेव स्फटयति। यदि हौति । जानमात्रमभिप्रेत्याह । लोकेति । यदि लोकव्यवहारः प्रमाणं तदाह । मिद्धमिति । एतदेवाभिप्रेत्याह । नहौति । असतख्यातिमभिप्रेत्याह । नायमिति । अन्यथाख्यातिमभिप्रेत्याह । यदिति । एकत्र को रजतत्वचेनाबाध्यं अन्यत्र वणिग्वौथ्यां तथाभावादबाध्यत्वसम्भवादित्यर्थः । अपिरभ्युपगमे । अत्यन्तामत्त्वमभिप्रेत्याह । मर्वत्रेति । तदपेक्षेति । यहाध्यत्वेनाभिमतं तत् सापेक्ष वा बाधकत्वाभिमतं प्रमाणं तदनपेक्ष वा अप्रमाणमेव वा तदिति विकल्यार्थः । व्यवहारपदं प्रमाणपरम् । श्राद्यं दृष
(१) विचारबाध्यत्वेन बँहणात् इति १ पु० पा० |
69
For Private and Personal Use Only