________________
Shri Mahavir Jain Aradhana Kendra
५४२
www.kobatirth.org
आत्मतत्त्वविवेके सटीके
Acharya Shri Kailassagarsuri Gyanmandir
विकल्पानुपपत्तेः दर्पणमुखवत् मत्त्वे बाध्यत्वस्यामत्त्वे व्यवहार्यत्वस्य चायोगात् न किञ्चित्मालम्बनं प्रत्ययत्वात् स्वप्नप्रत्ययवत्, न किञ्चिद्दर्शनं कर्मानुपपत्तेः केद्यानुपपत्तौ विदावत्, न कश्चित् सिद्धान्तः मिथो व्याघातात्, मिथः शोषक निर्वापकानलसलिलवत् । प्रतिज्ञापौत्यादि । न मत्येति । सत्यत्वमबाध्यत्वम् । सत्यत्वं प्रमात्वमित्यभिप्रायेण तु प्रतिज्ञाज्ञानं वक्तव्यम् । तदिज्ञानं प्रतिज्ञाज्ञानम् । तत्फलं प्रतिज्ञाजन्यं फलम् । दर्शनं दृष्टिः ॥
इष्यत एवेदमिति चेन्न, इच्छामात्रेण व्याघातानिवृत्तेः । यदि हि न (ज्ञातं ) १) किश्विदस्तौत्यादिप्रतिज्ञार्थः प्रतिज्ञां स्पृशेत् कथमयमर्थः प्रत्येतव्यः। न चेत् कथं सानुपपन्ना । तदनुपपन्नत्वे च कथं पुनः प्रतिज्ञार्थ उपपद्यते । तदिदमायातं स्वविषमूर्छिता भुजङ्गौ आत्मानमेव (२) दशतीति ॥
शङ्क ० टौ ० • । कथमयमिति । तत्र प्रतिज्ञायां श्रमत्त्वे भवत्प्रतिज्ञार्थः कथं प्रत्येतव्य इत्यर्थः । अथ प्रतिज्ञां प्रतिज्ञार्थोपि न स्पृशति तदा न किञ्चिदस्तीत्यादिप्रतिज्ञार्थः कथं मियेत्, प्रतिज्ञाया एव सत्त्वात्, सत्यत्वात् कारकत्वाद्विचार महत्वात् मालम्बनत्वात् दर्शनत्वात् मिद्धान्तवाचेत्याह । न चेदिति ॥
(२) ज्ञातमिति १ पुस्तके नास्ति । (२) स्वात्मानमपि इति १ ५० पा० ।
For Private and Personal Use Only