SearchBrowseAboutContactDonate
Page Preview
Page 556
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org बाह्यार्थभङ्गवादः । Acharya Shri Kailassagarsuri Gyanmandir 3 पक्षधर्मतेत्यर्थः । प्रामाणिकपरित्यागमनिष्टमुदाहरति । न तत्र पौयेतेति । तोयपानस्येष्टत्वात् । श्रप्रामाणिकपरिग्रहमुदाहरति । यदि तोयमन्यपुरुषमप्यन्तर्दहेत्तदा तत्पुरुषा विशिष्टं मामप्यन्तर्दहेत् । अत्र तोयदाहो न प्रमाणमिद्धः स एवापाद्यते इति । यथा यदौति । उभयत्रापि मूलशैथिल्यादाभासत्वम् । स्वार्थेति । स्वव्याघातकत्वशून्यमित्यर्थः । दूष्यसाधकत्वाविनाभृतमिति जात्युतराणां निराकरणाय । सिद्धमिति इलानां निराकरणाय । दूष्यो हेतुपचदृष्टान्तादिस्तद माधकत्वाविनाभावे मति । सत्यपि सिद्धत्वं पक्षधर्मत्वं नास्ति । प्रमेयत्वमहेतुरिति । प्रमेयत्वं प्रकृतमाध्यामाधकमित्यर्थः 1 अत्र हेतुमाह । अनैकान्तिकत्वादिति । श्रनैकान्तिकत्वं हि दूष्या साधकाविनाभूतं च प्रमेयत्वे भिञ्चेत्यर्थः । दूषणाभासेषु मध्ये स्वप्रतिक्षेपक युक्त्या क्षेपक मुदाहरति । सर्वथेति । इदं हि दूषणं स्वात्मानमपि व्याहन्तीत्यर्थः । दृष्यामाधकत्वाविनाभावशून्यमुदाहरति । प्रमेयत्वादिति । न हिं यत् प्रमेयं तद्वग्ह्यसाधकं धूमादौ व्यभिचारात् । श्रमिद्धमुदाहरति । विरुद्धत्वादिति । न हि वमाधकत्वेनोपपत्तिविरुद्धत्वमस्ति । ननु सतर्क प्रमाणं वाक्यारूढमिति यद्विचारलक्षणं कृतं तत् कथायां प्रत्यदोपन्यासस्यले शब्दोपन्यासस्यले चाव्यापकमत श्राह । दूरदपीति । श्रनुमानच्छाया अनुमानेतिकर्त्तव्यता । तामेवाह । तर्कमिति । यद्वा नन्वियमिति कर्त्तव्यताऽनुमानमाचम्योक्ता प्रमाणान्तरन्तु कथं व्यवतिष्ठतामित्यत आह । इतरदपीति ॥ For Private and Personal Use Only ५३८ रे
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy