SearchBrowseAboutContactDonate
Page Preview
Page 555
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५३२ आत्मतत्त्वविवेके सटीके त्वादिति । तत्परिकरश्च तर्कः। सोपि व्याप्तिबलमालख्यानिष्टप्रसङ्गरूपः। अनिष्टं च विविधं प्रामाणिकपरित्यागोऽप्रामाणिकपरिग्रहश्च,(२) यथा यद्यदकं पिपासादुःखं न शमयेत् न पौयेत, यदि च तदेव परमन्तईहेत् तदा विशिष्टं मामपि दहेत् । इतरस्तु तर्काभासः । यथा यदि जलं पिपासादःखं नाशमयिष्यत् रूपवदपि नाभविष्यत्, यथाऽऽकाशम, यदि च तदेव परमन्तरधक्ष्यत् मामपि सुरभिमकरिष्यदिति । दृषणमपि स्वप्रतिक्षेपकयुक्तरनाक्षेपकं दृष्यासाधकत्वाविनाभूतं सिद्धं च । यथाग्निमत्त्वे माध्ये प्रमेयत्वमनैकान्तिकत्वादहेतुरिति। अन्यथा तु तदाभासे, यथाऽयं धूमो नाग्निसाधकः सर्वथानुपलभ्यमानोपाधिशङ्काग्रस्तत्वात् प्रमेयत्वात् विरुड्वत्वाच्चेति । इतरदपि प्रमाणमनुमानच्छाययैव विचाराङ्गं, तर्कमनन्यथासिद्धिं च पुरस्कृत्य प्रवृत्तेः, ततस्तत्राप्येषैव रोतिरनुगन्तव्यति। शङ्क० टौ । तदर्थ इति । वाक्यार्थ इत्यर्थः । रूपपञ्चकेति । यद्यपि केवलान्वयिकेवलव्यतिरेकिणोश्चतरूपमपि लिङ्ग तथापि परस्यानभ्युपगमात्तदर्थमुपन्यामः । विशिष्टेति मन्ततोईगामित्वादिविशिष्टोपादानम् । पर्वतोऽग्निमानिति प्रतिज्ञायामेव लिङ्गाभासमुदाहरति । यथेति । अत्र न व्याप्तिन वा (१) काभ्यपगमश्च इति ३ पु० पा: । For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy