________________
Shri Mahavir Jain Aradhana Kendra
५३४
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्मतत्त्वविवेके सटीके
अपर्यवसानादेः
प्रागभावरूपतया दोषसाम्यादित्यादि मयूखे विस्तीर्णम् । बाधकप्रमाविरहो योग्यता । श्रव्यवधानेन प्रकृतमंसर्गप्रतियोग्युपस्थितिराम्रत्तिः । स्वरूपमत्यश्चैताः शाब्दप्रमाप्रयोजिकाः । तेन प्रतिसंहितमिति । प्रतिपदं सङ्घटितमिति व्याख्येयम् ।
श्राकाङ्क्षा सत्तया हेतुरितरे च ज्ञाते इत्याचाय्र्याः । सर्वा एव ज्ञाता इत्यपरे ।
निराकाङ्गस्योदाहरणं यथायं पर्वत इति । श्रयोग्यस्योदाहरणं जलहूद इति । अनामन्नस्य गिरिरिति शिष्टस्य श्वेत इति । प्रमाणान्तरप्रतिहतस्य शशविषाणीति । यद्यप्ययोग्यमप्येतत्तथापि प्रमाणान्तरप्रतौघातोऽत्र स्फुटतर इति तथोक्तम् । स्ववचनप्रतिहतस्य मातेति । जनकस्त्रीत्वमजनक स्त्रीत्वञ्च परस्परविरुद्धमित्यर्थः । स्वक्रियाप्रतिहतम्याहमिति । अन स्वक्रिययैव मूकत्वं स्वस्य प्रतिहतम् । अज्ञानप्रतिहतस्योदाहरणमिति । ज्ञानविषयतैवेदन्ता न जानामीत्यनेन प्रतिहता | स्वार्थप्रतिक्षेपकयुक्तेराक्षेपकमुदाहरति । मम कर्ण इति । न हि क गजप्रवेश : सम्भवति यदारणार्थं भेषजोपन्यासः । यदा गजप्रवेशेन बाधिर्यं वाक्यार्थः । भेषजशुश्रूषया च तत्प्रतिक्षेपः ॥
वचनलक्षणया
भगौ० टी० । लोकमि
व्यवहारमाचमिद्धमित्यर्थः ।
परिकरः सहकारिचकं, तस्य शुद्भिरनाभासत्वम् । तथैव लोकमिद्धूतयैव । तथा च साधनार्थमुपजीव्यं लोकमिद्धमन्यदपौति
For Private and Personal Use Only