________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५३०
आत्मतत्त्वविवेके सटीके
रघु. टौ । उपसंहरति । तस्मादिति । याह्याणां नौलधवलादौनां हि भेदात् प्रतिनियततद्विषयकाणां ज्ञानानां भेदमिद्धिः, ग्राह्यभेदबाधने च जानभेदसाधकस्य प्रतिनियतविषयत्वस्याभावात् क्षणिकानेकविज्ञानधाराकल्पने गौरवात्, एकत्वे च लाघवात् बलवत्यौपनिषद नये जयश्रीः, एकमेवाद्वितीयं ब्रह्म मत्यं विज्ञानमानन्दं ब्रह्म सत्यं ज्ञानमनन्तं ब्रह्मत्यादयो ह्यपनिषदो नित्यमद्वितीयं ज्ञानं प्रतिपादयन्तौति ॥
तवालोकं विचारासहमनिर्वचनीयं वा यमाश्रित्य जगद्गीयते स एव विचारश्चिन्त्यतां कोऽसौ कौदृशश्चेति। सतर्क प्रमाणमेव वाक्यारूढमिति चेत्, तच्चेविचारासहं, किं तेन भौतविचारकल्पेन। ___ तथाहि, केनचिनौतेन राजहारि हिरदमवलोक्य विकल्पितम्, किमयमन्धकारो मूलकमत्ति, आहोस्वित् जलवाहो बलाकान् वर्षति गर्जति च, यहा बान्धवोऽयं, "राजहारे श्मशाने च यस्तिष्ठति स बान्धव" इति परमाचार्यवचनात्, अथवा योऽयं भूमौ दृश्यते तस्य छायेति ।
दूषितञ्च, तत्र नाद्यः, शूर्पयुगलप्रस्फोटनानुपपत्तेः(१) । न द्वितीयः, तस्य स्तम्भचतुष्टयाभावात् । न तृतीयः, तस्य लगुडभ्रामणाभावात् । न चतुर्थः,
(१) नाभावात् इति ३ पु० पा० ।
For Private and Personal Use Only