________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बाह्यार्थभङ्गवादः ।
५२६
तस्मात्,
न ग्राह्यभेदमवधूय धियोऽस्ति वृत्तिस्तदाधने बलिनि वेदनये जयश्रीः । नो चेदनिन्द्यमिदमौदृशमेव विश्वं तथ्यं तथागतमतस्य तु कोऽवकाशः ॥ १ ॥
पाङ्क० टी० । अन्यतरमतप्रवेशमन्तरेण नान्या गतिरित्यपमंहरति । तस्मादिति । ग्राह्यभेदं ग्राह्यानां नौलधवलादीनां परस्परं भेदं तस्यैवाज्ञानस्य भेदमवधय तिरस्कृत्य धियां वृत्तिविषयविषयिभावः सम्बन्धो न मिड्यतीत्यर्थः । तद्वाधन दति । ग्राह्यभेदबाधन इत्यर्थः । वेदनयो वेदान्तस्तस्य बलवत्त्वमेकमेवाद्वितीयं ब्रह्मत्यादिश्रुत्युपष्टम्भात् । ननु श्रुतिवाक्यं घटात्पटो भिन्न इत्यादिप्रत्यक्षबाधितं ग्रावप्लवनश्रुतिवदन्यतात्पर्यकमित्याह । नोचेदिति । अनिन्धं परोक्रदोषास्पष्टम् । ईदृशं यथाप्रतीयमानं तथ्यमबाधितम् । तथागतो बौद्धः ॥
भगौ• टौ । न ग्राह्येति । विषयभेदं विना न नौलपौतबुझ्योभदः, न च तं विना बुद्धेत्तिविषयविषयिभावलक्षण: मम्बन्ध इत्यर्थः । तदाधने भेदांशबाधने । वेदनये वेदान्त नये । तथ्यं पारमार्थिकं विश्वं मिद्धमतो न बौद्धमतावकाश इत्यर्थः ॥
For Private and Personal Use Only