SearchBrowseAboutContactDonate
Page Preview
Page 533
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आत्मतत्त्वविवेके सटीक यत्त तहोचरव्यवहारजनकत्वमेव तद्विषयत्वमिति, तत्रास्ता व्यवहारस्य तगोचरत्वविचारः, किञ्चिदेव विज्ञानं क्वचिदेव व्यवहारमाधत्ते नान्यत्रेत्यत्र नियामकं वक्रव्यम्, जनकत्वं च न फलोपधानम्, सर्वत्र तदभावात् । नापि योग्यता, अवच्छे दकानिर्वचनात् । इत्थं च स्वभावेति स्वीयभावार्थक, प्रकाशम्येति इच्छादिनिरासायेत्युत्तरग्रन्थानुरोधेन वर्णयन्ति । वस्तुत इच्छादयोपि मविषयका एव । तेषां जनकज्ञानोपाधिक मविषयत्वमिति चेत्, जनकज्ञानविषयत्वं जनकं ज्ञानं वा न तद्विषयत्वम्, अतिप्रमङ्गात्, ईश्वरेच्छादावभावाच्च । अथ यद्विषयत्वेन ज्ञानस्येच्छाजनकत्वम् तद्विषयकं ज्ञानमेव तद्विषयत्वमिति चेत्, न तोश्वरेच्छादिकं मर्वविषयं स्यात्, मर्वविषयत्वे ने छाद्यनुत्पादकत्वात् । स्थाच सुखादीच्छाया अपि दुःखाभावादिविषयत्वम् । अथ यविषयकज्ञानस्य यविषयकममानाधिकरणेच्छादिममयाव्यवहितपूर्वममये तादृशेच्छादिममये वा नियमतः सत्त्वं तद्विषयक ज्ञानमेव तथा। सुवचश्च महाप्रलयाव्यवहितपूर्वक्षण एवेश्वरेच्छाधिकरणसमथाव्यवहितपूर्वः समय दति चेत्, तर्हि पाकादौछाया दृष्टमाधनतादिविषयतापि स्यात्, न स्याच्च कृतेः पाकादिविषयत्वं. तदव्यवहितपूर्वक्षणे पाकादिज्ञानान्तरे मानाभावात् । म्याचे छाया: कृत्यत्पादममये निर्विषयत्वम्, इच्छानन्तरं तादृशं जानं तदनन्तरं कृतिः, तदनन्तरं तादृशं ज्ञानान्तरं किं वा युगपद्योग्यात्मगुणदयोत्पादमुपेत्येच्छा कृत्युत्पादममये नियमतस्तादृशं ज्ञानान्तरं कल्पनीयमिति चेत्, तर्हि लाघवात् संस्कारे गत्यन्तराभावाच For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy