________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
बाह्यार्थभङ्गवादः ।
Acharya Shri Kailassagarsuri Gyanmandir
,
घटज्ञानं जातो घट इत्येव स्यात्, न तु घटत्वेन घटज्ञानं घटत्वेन घटो ज्ञात इति, घटत्वम्य सम्बन्धकोटौ प्रवेशात्, न हि भवति नौलत्वेन नौलो घटो नौलत्वेन घटनौलिमेति, (१२) तदवच्छिन्नत्वं च यदि धम्मन्तरं तदा भाषान्तरेणातिरिक्तविषयता स्वीकारः, श्रथ तद्भयमेव, तदाऽतीतानागत विशेषणकेप्रतीकारः । अपि च यदि विज्ञानं स्वरूपेपा घटादिभिः मम्बद्धमिति तेषु व्यवहारमाधते. तदा स्वात्मनि स्वाभावे स्वकालादावप्यादध्यात्तैरपि ममं तस्य स्वरूपेण सम्बद्धत्वात् । किं च यदि विषयता तत्त्वं वा नातिरिच्यते, तदा कथं तद्विषयकेच्छा दिमामान्ये तद्विषयक ज्ञानानां कार पात्वमननुगतत्वात्, मम्बन्धत्वेन चानुगमेऽत विषय के तत्सम्बन्धान्तरशालिनि ज्ञानेऽतिप्रसङ्गः, तम्मादतिरिक्तैव विषयता, तद्विशेषास्तु प्रकारत्वादयः, एवं विषयतात्वादिकमपि । एतेन प्रतियोगित्वाधिकरणत्वादयो मप्तपदार्थोप्रवादस्तु वैशेषिकप्रसिद्धिमनुरुयैव । श्रथैवं सम्बन्धानन्येऽनवस्था स्यात्, स्यादेव यदि क्वचिदपि स्वरूपमम्बन्धेन न प्रतौकारः, अन्यथाऽनुपपत्तेर्दुर्वारत्वात् मा च ज्ञाननिष्ठा ज्ञानस्य च नियतकार्यजनकतावच्छेदकतया कल्पनीया, तत्प्रतियोगितया चार्थे विषयव्यवहारः ।
व्याख्याताः ।
परे तु विषयत्वविषयित्वे भिन्ने एवार्थज्ञानयोः प्रतियोगि
त्वानुयोगित्वे व भावाभावयोरित्याजः ।
(१) नौलमिति २ ५० पा० ।
५१५
For Private and Personal Use Only