________________
Shri Mahavir Jain Aradhana Kendra
५. ०६
www.kobatirth.org
आत्मतत्त्वविवेक मटाक
Acharya Shri Kailassagarsuri Gyanmandir
कालावच्छेदकानामुपाधीनाम
ममर्थयति । शून्यत्वादेवेति । भावादेव ब्रह्मणि न कालावच्छेद इति नित्यत्वमुक्तं श्रुतौ वस्तुत न तत्र धर्मः कश्चिदित्यर्थः । अतएव देशस्य शून्यत्वादेव विशेषाभावः भेदरूपधर्माभाव इत्यर्थः । प्रपञ्चो ज्ञानभित्र घटादिः । श्रविचारितेति । मत्त्वामत्त्वाभ्यामनिर्वचनीयघटाद्यपेचयेत्यर्थः । ननु प्रपञ्चः प्रकाशत इत्यनुभवसिद्धम्, तस्य जानान्तरप्रकाश्यत्व देनापत्त्या ब्रह्मप्रकाश्यतायां ब्रह्मवत् प्रपञ्चोपि वास्तवः स्यात्. ब्रह्मणश्च प्रमाणत्वाद्ग्राह्यलक्षणं चावर्जनीयमित्याह । तथापौति । ब्रह्मण: स्वात्मनि धर्म्मिणि प्रमाणत्वेपि बाधकात् प्रपञ्चांशे भ्रमत्वमेवेत्याह । वस्तुगत्येति । सम्वृत्त्या विति । यथा तयोराधाराधेयभावो न तात्त्विकस्तथाऽस्माकं मम्वृत्त्या विषयविषयिभावोपीत्यर्थः । वेद्यनिष्ठ इति । अस्मिन वेदान्तनये । म विषयविषयिभावः । वैद्यनिष्ठः, न तु नैयायिकानामिव ज्ञानात्मक त्रह्मणा पारमार्थिकेनापारमार्थिकप्रपञ्चम्य मम्बन्धाभावादित्यर्थः । श्रविद्येवेति । ज्ञानासम्बन्धेपि प्रपञ्चम्य प्रपञ्चमम्बन्धिताव्यवहारो न मत्यः, किन्त्व विद्यानिबन्धन इत्यर्थः । ननु घटज्ञानपट ज्ञानयोर्भेदव्यवहारो न स्यात्, ब्रह्मणो निरूपकस्याभेदादित्यत श्राह । तत्तदिति । श्रविद्यात एकमपि तत्तद्विषयोपधानेन भिन्नमित्र भामत इत्यर्थः । तदयं वेदान्तिपक्षो नेदानों दृष्यते श्रप्रमत्तत्वात् ज्ञानभिन्नं ग्राह्यमलौकमित्यभ्युपगमाच्च, योगाचारमतनिरामस्यैव प्रकृतत्वादित्याह । तदास्तामिति ॥
For Private and Personal Use Only