________________
Shri Mahavir Jain Aradhana Kendra
५०४
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्मतत्त्वविवेके सटीके
रूपम्, अविचारितप्रपञ्चापेक्षया तु श्रन्यमिति व्यव - हारः । तथापि प्रपञ्चशून्यस्यानुभवमाचस्य प्रपञ्चेन सह कः सम्बन्धः, न च नायं प्रकाशत इति चेत्, वस्तुगत्या न कश्चित् संवृत्त्या तु गगनगन्धर्वनगरयोराधाराधेयभाव इव विषयविषयिभावः, स च यथा नैयायिकैः समर्थयिष्यते तथैव, वेद्यनिष्ठस्त्वसावस्मिन् दर्शन इति विशेषः । अविद्यैव हि तथा तथा विवर्त्तते यथा यथाऽनुभाव्यतया) व्यवहियते । तत्तन्मायोपनौतोपाधिभेदाच्चानुभृतिरपि भिन्नेव व्यवहारपथमवतरति गगनमिव स्वप्नदृष्टघटकटाहकेाटरकुटोकोटिभिः । तदास्तां तावत् किमार्द्रकवणिजो वहित्रचिन्तया ।
शङ्क० टौ० । वेदान्तो स्वमतमुपम्करोति तथाहौति । अनुभवरूपं स्वप्रकाशज्ञानात्मकम् । शून्यत्वादिति । प्रपञ्चम्य मिथ्यात्वादित्यर्थः । नित्यं विज्ञानमानन्दं ब्रह्मेति श्रौतं नित्यत्वं कालस्य कालोपाधनाञ्चासत्त्वादेव न तदवच्छेद एतावतैवोपचरितमित्यर्थः । श्रत एवेति । शून्यत्वादेव देशाभावादित्यर्थः । तस्येति | विचारस्येत्यर्थः । विशेषाभावो वैधर्म्याभावस्तदभावाच्चान्योन्याभावाभाव इति द्वैताभाव इत्यर्थः । म च ब्रह्मात्मक एवेति भावः । ननु प्रपञ्चभिन्नत्वात्तनिषेधरूपमेव तन कथमत
( १ ) ऽनुभवनीयतया इति ३ पु० पा० ।
For Private and Personal Use Only