________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बाह्यार्थभङ्गवादः।
वाच्यम् । दःखस्यापारमार्थिकत्व तहानाथे प्रेक्षावत्प्रवृत्त्यनुपपत्तेः, पारमार्थिकत्वे तु शून्यत्वायोगात् । तथाविधस्य हेयोपादेयज्ञानविधुरस्य पारलौकिकम्य सुखस्य दःखम्य चापारमार्थिकत्वे तदर्थ व्रतनियमादौ न प्रवृत्तिः तद्भयाच न स्वच्छन्दपानभक्षणादेनिवृत्तिरित्याशय निराचष्टे। नापौति। अयमिति। लोक इति शेषः । इहैवेति । माधनम्य वयादेः क्वचित्मर्वच च हेयोपादेयसुखदुःखयोरानुमानिकत्वात् । तदपोति । माधनमिन्द्रियमनिकर्षदशायाम्, सुखदःखे चोत्पादानन्तरम् । दहापौति । विचारेणहिकस्याप्य पनुतत्वात् ॥
मोऽयं पवनतनयवार्तामुपश्रुत्य तत्स्पर्द्धया बालवानरः कियदपि दूरमुत्लत्य महार्णवे पतितः प्राह, अपार एवायमकूपारो मिथ्या रामायण मिति, तत् किमनेन। एवं ज्ञातुं निर्वक्तं वा न शक्यते कीदृशं जगदित्येतावन्मात्रमपि पामरदशावन्निष्फलमेव । न च निष्फलत्वेपि श्रद्धेयमिदं, तावत्परामर्शपाटवाभावेनाप्युपपत्तेः। न हि जात्यन्धो नौलं ज्ञातुं निर्वक्तं वा न शक्त इत्यज्ञेयानिर्वाच्यमेव तल्लोक इति।
शङ्क० टौ. । विचारकुशलम्पर्द्धया विचाराकुशल स्त्वं तत्त्वोपप्रवं विचार विकलमादर्शयनपहमनौयोऽसौ ति दृष्टान्तेन दर्शयति । मोयमिति । विचारम्य फलान्तरमाशङ्कते। एवमिति।।
(१) रामायणी कथेति ३ पु० पा० ।
For Private and Personal Use Only