SearchBrowseAboutContactDonate
Page Preview
Page 513
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आत्मतत्त्वविवेके सटौके मर्यादा विश्रामस्थानम् तत्त्वोपप्लवमुखेन शून्यता वा। अलोकतापक्षे अमदेव बाह्यं गृह्यते, शून्यतापचे ज्ञानमपि नाम्तौति' विशेषः । विज्ञानवादप्रमङ्गादवान्तरवादान्तरावतारोऽयम् । निश्चलत्वं निर्दोषत्वम् । तथा च स्वयं दोषवता विचारेण नान्यदष्टत्वमाधनमिति भावः । अन्यस्य प्रात्मास्तित्वादिसाधकम्य । भवतामेतदिचारारम्भोपि न युक्त इत्याह । निष्फलेति । अस्य विचारस्येति शेषः ॥ न ह्यस्यातिप्रत्तिः फलम्, गगनास्वादनेनावृप्तः, ज्वाला(अलौक)कलापालिङ्गनेन तापानपनोदनात् । नाप्यतिनिवृत्तिः, जडीभावमात्रेप्युपनिपातिदुःखानिवृत्तेः। न च दुःखमपि विचारासहमित्यहेयमेव, तथाविधस्य विचारेप्यनधिकारात्। नापि यथालोकं व्यवस्थितिः, विचारात् प्रागपि तस्याः पामरादिवदयनसिद्धेः । नापि परलोकमाचान्नित्तिः, तस्यैहिकतुल्यत्वात् । दृश्यते हि तावदयमिति चेत्, यदि ज्ञानवचनो दृशिस्तदापरोपि तथा। साक्षात्कारवचनश्चेत्, इहैवानुमानादेरप्रतिप्रसङ्गः। तदपि प्रत्यक्षमिति चेत्, आमुष्मिकमपि प्रत्यक्षमेव, तथाऽपि किं विचारेण, तमन्तरेणापि तस्याः सुलभत्वात्, तामेवायं पुष्णातौति चेत् तुल्यलक्षणत्वात् । अरुचेरेव तत्र न प्रत्तिरिति चेत्, अविशेषादिहापि पुष्णीयादिति। For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy